SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २०४ पुरुदेव चम्पूप्रबन्धे [ ५०९२५ करतया तिमिरनिकरनिराकरणचतुरतया च पदयुगं मम बन्धुतां स्वीकृत्य मम विप्रियं पङ्कजातं निर्मूलयतीति स्नेहादुपगतेन शीतकरबिम्बेनेव घनवज्रनूपुरेणाङ्घ्रिद्वयमलंचकार । १० $ २५ ) एवं शच्या भूषितं देवदेवं पायं पायं लोचनैस्ते सुरेन्द्राः । आनन्दाब्धी मज्जनोन्मज्जनाढ्या इत्थं स्तोतुं प्रारभन्ते स्म भक्त्या || १४ || § २६ ) भजामस्त्वां लोकाधिप तव पदाम्भोजयुगलं श्रितो भूपो नॄणां द्विपद इति कीर्ति स भजते । नरो यस्त्वत्सेवाविमुखहृदयस्तं बुधवरा चतुष्पाद प्राहुर्बत विमलकारुण्यजलधे ! ॥१५॥ स्तस्य भावस्तया पक्षे शुभाः श्रेष्ठाः कराः किरणा यस्य तस्य भावस्तया, तिमिरनिकरस्याज्ञानान्धकारसमूहस्य पक्षे तमः समूहस्य निराकरणे दूरीकरणे चतुरतया च विदग्धतया च पदयुगं चरणयुगलं मम शीतकर बिम्बस्य बन्धुतां सनाभितां सादृश्यमित्यर्थः स्वीकृत्य मम विप्रियमनिष्टे पक्षे शत्रुं पङ्कजातं पङ्कानां पापानां जातं समूहं पक्षे पङ्काज्जातं पङ्कजातं कमलसमूहं निर्मूलयति समुत्पाटयति पराभवति इति हेतोः स्नेहात्प्रेम्णः उपागतेनेव १५ संप्राप्तेनेव शीतकर बिम्बेनेव चन्द्रमण्डलेनेव घनवज्रनूपुरेण घनहीरकपादकटकेन अङ्घ्रिद्वयं चरणयुगलम् अलंचकार शोभयामास । श्लेषरूपकोत्प्रेक्षाः ॥ $२५ ) एवमिति – एवं पूर्वोक्तप्रकारेण शच्या पुलोमजया भूषितं समलंकृतं देवदेवं जिनेन्द्रं लोचनैर्नयनैः पायं पायं पीत्वा पीत्वा दृष्ट्वा दृष्ट्वेत्यर्थः आनन्दान्धी हर्षपारावारे मज्जनं निमज्जनं उन्मज्जनं समुत्तरणं ताभ्यामाढ्याः सहिताः ते पूर्वोक्ताः सुरेन्द्राः सौधर्मेन्द्रादयः इत्थं वक्ष्यमाणप्रकारेण भक्त्या अनुरागातिशयेन स्तोतुं प्रारभन्ते स्म तत्परा अभूवन् । शालिनी छन्दः ॥ १४॥ २० २६ ) भजाम इति - हे लोकाधिप ! हे लोकेश ! हे विमलकारुण्यजलधे ! हे निर्मलकृपाकूपार ! वयं त्वां - भजामः सेवामहे । कथमिति चेत् । यो नॄणां भूपः यो मनुष्याणां नाथः तव पदाम्भोजयुगलं चरणकमलयुगं श्रितः प्राप्तः स द्विपदो द्वे पदे यस्य तथाभूतः पदद्वययुक्तो मनुष्य इति यावत् इतीत्थं कीर्ति समज्ञां भजते प्राप्नोति । यो नरः त्वत्सेवाया भवदाराधनाया विमुखं पराङ्मुखं हृदयं यस्य तथाभूतः अस्तीति शेषः तं नरं बुधवरा विद्वच्छ्रेष्ठाः चतुष्पादं चत्वारः पादा यस्य तं पादचतुष्टययुक्तं पक्षे पशुम् प्राहुः कथयन्ति वत खेदे । यस्त्वां भजते २५ स द्विपदयुक्तो भवति यस्तु त्वां न भजते स चतुष्पादयुक्तो भवतोति विचित्रम् पक्षे त्वद्भक्ता मनुष्यास्त्वद नक्षत्रों के समूह से सेवनीय होनेसे ) शुभाकरता - कल्याणकारी होनेसे ( पक्ष में शुभ किरणों से युक्त होनेसे ) और अज्ञान - अन्धकार ( पक्ष में अन्धकारमात्र ) के निराकरण करनेमें चतुर होनेसे ) यह चरणयुगल हमारी बन्धुता - हमारे भाईचारेको स्वीकृतकर हमारे विरोधी पंकजात - कमलको ( पक्षमें पापोंके समूह ) को नष्ट करेगा इस स्नेहसे मानो चन्द्रबिम्ब ३० ही आया हो । $ २५ ) एवमिति - इस प्रकार इन्द्राणीके द्वारा अलंकृत देवाधिदेव जिनेन्द्रदेवको नेत्रोंके द्वारा देख-देखकर जो हर्ष के सागर में डुबकियाँ लगा रहे थे ऐसे उन इन्द्रोंने भक्तिपूर्वक इस प्रकार स्तुति करना प्रारम्भ किया || १४ || $२६ ) भजाम इति - हे लोकेश ! हे निर्मल दयाके सागर ! हम आपकी सेवा करते हैं क्योंकि जो मनुष्यों का राजा - श्रेष्ठनर आपके चरणकमलयुगलकी सेवा करता है वह 'द्विपद' इस प्रकार कीर्तिको प्राप्त होता है ३५ और जो मनुष्य आपकी सेवासे विमुखहृदय रहता है विद्वान् लोग उसे चतुष्पाद् कहते हैं यह खेद की बात है । अर्थात् भक्तको द्विपद और अभक्तको चतुष्पाद् कहना खेदका विषय है. ( परिहारपक्ष में भक्तको द्विपद - मनुष्य और अभक्तको चतुष्पाद् - पशु कहते हैं ) ||१५| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy