________________
-२३ ]
पञ्चमः स्तबकः
$ २० ) शुद्धाम्बुस्नपने निष्ठां गते गन्धाम्बुभिः शुभैः । ततोऽभिषेक्तुमीशानं शतयज्वा प्रचक्रमे ॥११॥
$ २१ ) चञ्चच्चन्दनकल्पकद्रुकुसुमैः कर्पूरचूर्णैस्तथा संमिश्रा सुरहेमकुम्भविगलच्छ्रो गन्धपाथोझरी |
क्षी राम्भोधिपयःप्रवाहधवलं मेरुं हिमानीगिरि
मत्वा तत्र समापतन्त्यतितरां गङ्गेव तुङ्गा व्यभात् ॥ १२॥
$ २२ ) तस्यां खलु गन्धोदकनिम्नगायां जिनार्भकदिव्यदेहसौगन्ध्यसंजातलज्जाभरेणेवावाङ्मुखतया प्रवहृन्त्यां कृतावभृथमज्जनाः सुरजना धूपदीपगन्धाक्षतादिभिर्देवदेवं पूजयामासुः । $ २३ ) नटत्सुरवधूधनप्रविसरत्कटाक्षावलिं
कपोलतलसंगतां त्रिभुवनाधिपस्यादरात् । सुराधिपतिसुन्दरी स्नपनतोयशङ्कावशात्
प्रमार्जयितुमुद्यता किल बभूव हास्यास्पदम् ॥१३॥
२०१
Jain Education International
भेंट किये हुए मानो स्वच्छ वस्त्रोंके समूह ही हों। 8२० ) शुद्धाब्बिति - शुद्धजलका अभिषेक समाप्त होनेपर तदनन्तर इन्द्रने शुभ एवं सुगन्धित जलके द्वारा भगवान्का अभिषेक करना प्रारम्भ किया || ११|| $२१ ) चञ्चच्चन्दनेति - शोभायमान चन्दन और कल्पवृक्षके फूलों तथा कपूरके कणोंसे मिली, देवोंके स्वर्णकलशोंसे झरती हुई सुगन्धित जलको धारा, क्षीरसागर के जलसे सफेद मेरुको हिमालय समझकर उसपर पड़ती हुई ऊँची गंगा नदीके समान अत्यन्त शोभित हो रही थी ||१२|| $ २२ ) तस्यामिति - जिनबालकके दिव्य शरीर सम्बन्धी सुगन्धिसे उत्पन्न लज्जाके भारसे ही मानो जो नीचा मुख कर बह रही थी ऐसी उस अभिषेक जलकी नदीमें पूजा सम्बन्धी स्नानसे निवृत्त हो देवोंने धूप, दीप, गन्ध तथा अक्षत आदिसे भगवान् की पूजा की । $२३ ) नटदिति - त्रिलोकीनाथ के कपोलतलपर संगत, नृत्य करती हुई देवियोंके फैलनेवाले कटाक्षोंकी पंक्तिको स्नपनका जल समझ पोंछने
२६
संश्लेषोपमाः ॥ 8२० ) शुद्धाम्बिति — शुद्धाम्बुना स्नपनं तस्मिन् शुद्धजलाभिषेके निष्ठां समाप्ति गते सति ततस्तदनन्तरं शतयज्वा शक्रः शुभैः प्रशस्तैः गन्धाम्बुभिः सुगन्धितजल: ईशानं भगवन्तम् अभिषेक्तुं स्नपयितुम् प्रचक्रमे तत्परोऽभूत् ॥ ११ ॥ २१ ) चञ्चदिति - चञ्चच्चन्दनश्च कल्पकद्रुकुसुमानि चेति द्वन्द्वस्तैः शोभमानमलय जामरमही रुह सुमनोभिः तथा कर्पूरचूर्णेश्च घनसारचूर्णेश्च संमिश्रा संमिलिता, सुरहेमकुम्भेम्यो देवजाम्बूनदकलशेभ्यो विगलन्ती क्षरन्तो या श्रीगन्धपाथोझरी सुगन्धितजलधारा, क्षीराम्भोधे: क्षीरसागरस्य पयःप्रवाहेण जलप्रवाहेण घवलो वलक्षस्तं तथाभूतं मेरुं सुरशैलं हिमानीगिरि हिमालयं मत्वा तत्र समापतन्ती तुङ्गा समुन्नता गङ्गेव मन्दाकिनीव अतितरामत्यन्तं व्यभात् शुशुभे । संशयोपमा । शार्दूलविक्रीडितम् । $ २२ ) तस्यामिति - जिनार्भकस्य जिनशिशोदिव्यदेहे कमनीयकाये यत्सौगन्ध्यं सौरभ्यं तेन संजातः समुत्पन्नो यो लज्जाभरस्त्रपासमूहस्तेनेव अवाङ्मुखतया नीचैर्वदनतया प्रवहन्त्यां तस्यां खलु पूर्वोक्तायां गन्धोदकनिम्नगायां स्नपनसलिलस्रवन्त्यां कृतं विहितमवभृथ मज्जनं पूजास्नानं यैस्तथाभूताः सुरजना देवजना धूपदीपगन्धाक्षतादिभिः देवदेवं जिनेन्द्रं पूजयामासुरर्चयामासुः । ९२३ ) नटदिति - त्रिभुवनाधिपस्य त्रिलोकीनाथस्य कपोलतलसंगतां गण्डस्थलमध्यपतितां नटत्सुरवधूजनस्य नृत्यद्देवपुरन्ध्रीसमूहस्य प्रविसरन्ती प्रसरणशीला या कटाक्षावली केकरपङ्क्तिस्ताम् स्नपनतोयशङ्कावशात् अभिषेकजलसंशयवशात् आदरात् प्रमार्जयितुं प्राञ्छितुम् उद्यता तत्परा सुराधिपतिसुन्दरी शची हासास्पदं हासस्थानं बभूव किल । भ्रान्तिमान् ।
२५
For Private & Personal Use Only
५
१०
१५
२०
३०
३५
www.jainelibrary.org