________________
५
१५८
पुरुदेव चम्पूप्रबन्धे
[ ४६३६
क्षणेन निःसीमतेजःप्रसरः, कुम्भस्तनि ! कुम्भयुगलेन निधिभाक् मीनायतलोचने ! मोनद्वयेनानन्तसुखः, सरोवरसदृशनाभिमण्डले ! सरोवरेण सल्लक्षणोपेतः, पारावारगम्भीरे ! पारावारेण समस्तदर्शी, पीठायितनितम्बे ! सिंहपीठदर्शनेन साम्राज्यमहितः, सुरविमानसमानमन्दिरे ! सुरविमानेन स्वर्गादवतरिष्यति, फणिनिभवेणि ! फणिपतिभवनेनावधिज्ञानलोचनः, सद्रत्नशोभिते ! रत्नसंचयेन गुणाकरः शुचिस्मिते ! शुचिदर्शनेन कर्मेन्धनदहनः, वृषभाकारमादाय तवास्यप्रवेशेन वृषभो देवस्त्वद्गर्भे संनिधास्यतीति ।
$ ३६ ) तावत्सुराधिपतिशासनतः समेत्य दिक्कन्यकाश्च कुतुकेन सिषेविरे ताम् ।
सर्वश्रेष्ठ समृद्धियुक्तः । पूर्णचन्द्र इवाननं यस्यास्तत्संबुद्धी हे पूर्णचन्द्रानने पूर्णेन्दुमुखि ! पूर्णचन्द्रस्य दर्शनेन १० सकलजनानां निखिलप्राणिनामानन्दस्य हर्षस्य संदायक इति सकलजनानन्दसंदायकः । प्रभाकरनिभाः सूर्यसदृशा ये मगिगणास्तैर्मण्डिता शोभिता तत्संबुद्धी हे प्रभाकरनिभमणिगणमण्डिते ! प्रभाकरस्य सूर्यस्य निरीक्षणेन निःसीमा तेजःप्रसरो यस्य तथाभूतो निःसोमतेजःप्रसरः अपरिमितप्रतापसमूहः । कुम्भाविव स्तनो यस्यास्तत्संबुद्धी हे कुम्भस्तनि ! कुम्भयुगलेन कलशयुगेन निधि भजतीति निधिभाक् लोकोत्तरकोषयुक्तः । मोनाविवायते लोचने यस्यास्तत्संबुद्धी हे मीनायतलोचने ! मोनद्वयेन मोनयुगलेन अनन्तं सुखं यस्य तथाभूतो१५ ऽनन्तसौख्यभाक् । सरोवरसदृशं नाभिमण्डलं यस्यास्तत्संबुद्धी हे सरोवरसदृशनाभिमण्डले ! सरोवरेण कासारावलोकनेन सद्भिर्लक्षणैरुपेतः सल्लक्षणोपेतः प्रशस्तचिह्नसहितः । पारावार इव गम्भीरा तत्संबुद्धी हे पारावारगम्भीरे ! पारावारेण सागरेण समस्तदर्शी विश्वदृश्वा । पोठायितनितम्बे ! सिंहपीठस्य सिंहासनस्य दर्शनेन समवलोकनेन साम्राज्येन महितः शोभितः साम्राज्यमहितः । सुरविमानसमानं मन्दिरं भवनं यस्यास्तत्संबुद्धी हे सुरविमानसमानमन्दिरे ! सुरविमानेन देवविमानेन स्वर्गात् नाकात् अवतरिष्यति समागमि२० ष्यति । फणिनिभा सर्पतुल्या वेणी श्रम्मिलो यस्यास्तत्संबुद्धी हे फणिनिभवेणि ! फणिपतिभवनेन नागेन्द्रभवनेन अवधिज्ञानं लोचनं यस्य तथाभूतोऽवधिज्ञानसंपन्नः । सद्रत्नशोभिते प्रशस्तरत्नालंकृते ! रत्नसंचयेन रत्नराशिना गुणाकरो गुणखनिः । शुचिस्मिते धवलहसिते ! शुचिदर्शनेन अग्निनिरीक्षणेन कर्मेन्धनदहनः कर्मदारुभस्मकर्ता | वृषभाकारं वृषाकृतिम् आदाय गृहीत्वा तव भवत्या आत्मप्रवेशेन मुखप्रवेशेन वृषभो देवः त्वद्गर्भे भवद्गर्भे संनिधास्यति संनिहितो भविष्यति । इतीत्यस्य व्याजहारेति क्रियया संबन्धः । ६३६ ) तावदिति - २५ तावत् तावता समयेन सुराधिपतिशासनतः शक्राज्ञया समेत्य समागत्य दिक्कन्यका रुचकगिरिनिवासिन्यः
चन्द्रमा देखने से वह सब लोगोंको आनन्दका देनेवाला होगा । हे सूर्यके समान मणियोंके समूह से सुशोभित ! सूर्यके देखनेसे वह अपरिमित तेजके प्रसारसे सहित होगा । हे कुम्भके समान स्तनोंवाली ! कुम्भयुगलके देखनेसे वह निधियोंको प्राप्त करनेवाला होगा । हे मीनके समान लम्बे नेत्रोंवाली ! मीनयुगलके देखने से वह अनन्तसुखसे युक्त होगा । हे सरोवर के ३० समान नाभिमण्डलवाली ! सरोवर के देखनेसे वह अच्छे लक्षणोंसे सहित होगा । हे समुद्र
के समान गम्भीर ! समुद्र के देखने से वह पुत्र सर्वदर्शी होगा। हे स्थूल नितम्बों वाली ! सिंहासनके देखने से वह साम्राज्यशाली होगा । हे देवविमानके समान मन्दिरवाली ! देवविमानके देखने से वह स्वर्गसे अवतार लेगा । हे सर्प के समान चोटीवाली ! नागेन्द्रका भवन देखनेसे वह अवधिज्ञानरूपी नेत्रसे युक्त होगा । हे समीचीन रत्नोंसे सुशोभित ! रत्नराशिसे वह ३५ पुत्र गुणोंकी खान होगा । हे धवल मुसकानवाली ! अग्निके देखनेसे वह कर्मरूपी ईन्धन
को जलानेवाला होगा और बैलका आकार लेकर तुम्हारे मुखमें प्रवेश करनेसे वृषभनाथ भगवान् तुम्हारे गर्भ में आयेंगे । ९३६ ) तावदिति - उसी समय इन्द्रकी आज्ञासे आकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org