SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४५ -१७] चतुर्थः स्तबकः १५) चिरमुपगतामेतां त्यक्तुं नभोगसरोगतां कुवलयदशस्त्वासीदब्जद्वयं नयनाननम् । अहमपि भवाम्यस्याः कण्ठस्तथाब्जसमाह्वय इति किल दरस्तस्याः कण्ठात्मतां समगच्छत ॥१३॥ १६) वचनाधरी मृगाक्ष्या मधुरौ तत्राद्यसंगतो वर्णः। शुकलाल्यश्चरमगतः किंशुकलाल्यस्त्वियान्भेदः ॥१४॥ $ १७ ) नासाकैतवदोघवंशकलितस्तम्भे कुरङ्गीदृशो भ्रूवल्लीद्वयरज्जुबद्धशिखरे द्राङ्नाटयजीविस्मरः । उत्प्रेक्षा। उपजातिः ॥१२॥ ६१५) चिरमिति-अब्जद्वयम्-अब्जं च अब्जश्चेत्यब्जी तयोर्द्वयं जलजद्वयं कमलं चन्द्रश्चेत्यर्थः, चिरं चिरकालेन उपगतां प्राप्ताम् एतां प्रसिद्धांनभोगसरोगतां न विद्यते भोगो यस्य स १० नभोगः, रोगेण सहितमिति सरोगं, नभोगश्च सरोगं चेति नभोगसरोगे तयोर्भावो नभोगसरोगता तां भोगराहित्यं रोगसाहित्यं च पक्षे नभसि गच्छतीति नभोगश्चन्द्रः सरसि गच्छतीति सरोगं कमलं तयोर्भावस्तां नभोगामितां सरोगामितां च त्यक्तुं हातुं कुवलयदृश उत्पलाक्ष्या मरुदेव्या नयनाननं नयनं चाननं चेति नयनाननं प्राण्यङ्गत्वादेकवद्भावः आसीत् । अब्जसमाह्वयः अब्जमिति समाह्वयं नाम यस्य तथाभूतोऽहमपि अस्या मरुदेव्याः कण्ठो ग्रीवा भवामि, इति किल विचार्य दरः कम्बुः तस्या मरुदेव्याः कण्ठात्मतां कण्ठस्वरूपतां १५ समगच्छत् प्रापत् । तस्या नयनं कमलसदृशं आननं चन्द्रतुल्यं कण्ठश्च शङ्खसंनिभो बभूवेति भावः । 'अब्जो धन्वन्तरी चन्द्रे निचुले क्लीबमम्बुजे । अस्त्री कम्बुनि-' इति विश्वलोचनः । उत्प्रेक्षा । हरिणीच्छन्दः ॥१३॥ ६५६) वचनेति-मगाझ्या मरुदेव्याः वचनं चाधरश्चेति वचनाधरौ वचोदशनच्छदी मधुरी मधुररसयुक्तावास्ताम् । किं तु तत्र द्वयोः आद्ये संगतः आद्यसंगतो वचनसंगत इत्यर्थः वर्णोऽक्षरसमूहः शुकलाल्यः शुकवल्लाल्यः शुकवचनमिव लालनीयः चरमगतोऽधरगतो वर्णो रङ्गः किंशुकलाल्यः लालस्य भावो लाल्यं किंशुकमिव २० पलाशपुष्पमिव लाल्यं रक्तत्वं यस्य तथाभत इयान् एतावान् भेदो विशेषः। व्यतिरेकः । आर्याछन्दः ॥१४॥ $१७) नालेति-नाटयेन जीवतीत्येवंशीलो नाट्यजीवी स चासो स्मरश्चेति नाटयजी विस्मरः नतंकवृत्तियुक्तो मदनः भ्रूवल्लीद्वयं भ्रकुटोलतायुगलमेव रज्जू रश्मी ताभ्यां बद्धं शिखरमग्रभागो यस्य तथाभूते कुरजोदशो हरिणाक्ष्याः नासाया घ्राणस्य कैतवं कपटं यस्य तथाभूतो यो दोर्घवंश उन्नतवेणुस्तेन कलितः १५) चिरमिति-अब्जके तीन अर्थ हैं चन्द्रमा, कमल और शंख । इन तीनमें चन्द्रमा २५ और कमल चिरकालसे प्राप्त हुई नभोगता-भोगराहित्य (पक्षमें आकाशगामित्व ) सरोगता-रोगसाहित्य (पक्ष में सरोगामित्व) को छोड़नेके लिए कुवलयके समान नेत्रोंवाली मरुदेवीके नेत्र और मुख बन गये अर्थात् कमल नेत्र बन गया और चन्द्रमा मुख बन गया । अब शंख विचार करता है कि मैं भी अब्ज नाम वाला हूँ अतः मैं भी इसका कण्ठ हुआ जाता हूँ यह विचार कर ही मानो शंख उसकी कण्ठरूपताको प्राप्त हो गया ३० था ॥१३॥ ६१६) वचनेति-मृगनयनी मरुदेवीके वचन और ओठ दोनों ही मधुर थे। उनमें वचनसे संगत वर्ण-अक्षर समूह शुकलाल्य था अर्थात् शुकके वचनके समान लालनीय था और ओष्ठ संगत वर्ण-रंग, पलाश पुष्पके समान लालिमासे युक्त था इतना ही दोनोंमें भेद था ॥१४॥ ६१७) नासेति-नाटक द्वारा आजीविका करनेवाले कामदेवने, भ्रकुटी लताओंके युगलरूपी रस्सियोंसे जिसका अग्रभाग बँधा हुआ था ऐसे उस मृगनयनी ३५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy