SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ पुरुदेव चम्पूप्रबन्धे १९३ ) त्र्यरत्निप्रमितोत्सेधदिव्यदेहेन राजतः । मानसोऽस्य प्रवीचारो विष्वाणोऽपि तथाभवत् ॥५०॥ १९४ ) द्वाविंशतिसहस्रैश्च समानां सकृदाहरेत् । तथैकादशभिर्मासैः सकृदुच्छ्वसितं भजेत् ॥५१॥ १९५ ) संचारिणीभिरिव हेमलताभिराभिदेवीभिरेष ललिताकृतिरच्युतेन्द्रः । चिक्रीड दिव्यसरसीषु कुमुद्वतीषु मन्दारसुन्दर वनेषु च मन्दरेषु ॥ ५२ ॥ $ ९६ ) ततश्च तस्य स्वर्गं प्रच्युतिलिङ्गषु देवीजनशोकाग्निविस्फुलिङ्ग ष्विव प्रकटोभवत्सु, १० धीरधीरमनाः सोऽयमच्युतेन्द्रः षण्मासानर्हत्परमेष्ठिसपर्यामत्याश्चर्यां विधाय त्रिदिवात्प्रच्युत्य, १३० सहितः रसान्निष्क्रान्तो नीरसो जरन्नैयायिक इव नीरसस्तस्य हितो हितकरो नासीदिति न किमप्यद्भुतम् । श्लेषविरोधाभासो । $ ९३ ) ज्यरत्नीति -त्रयरनिप्रमितो हस्तत्रयप्रमित उत्सेध उच्छ्रायो यस्य तथाभूतो यो दिव्यदेहो वैक्रियिककायस्तेन 'सरत्निः स्यादरनिश्च निष्कनिष्ठेन मुष्टिना' इति 'नगराद्यारोह उच्छ्राय उत्सेधइचोच्छ्रयश्च सः' इति चामरः । राजतः शोभमानस्य अस्याच्युतेन्द्रस्य प्रवीचारो मैथुनं मानसो मनोविषयो १५ विष्वाण आहारोऽपि तथा मानस इत्यर्थः अभवत् । प्रवीचारविषये देवानां नियमोऽयम् 'कायप्रवीचारा आऐशानात् ' ' शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः' 'परेऽप्रवीचाराः' इति तत्त्वार्थसूत्रे । आहारविषयेऽप्येवं नियमोऽस्ति — येषां देवानां यावत्सागरप्रमितमायुर्भवति तेषां तावत्सहस्रवर्षानन्तरमाहारस्येच्छा भवति सा च कण्ठे क्षरतामृतेन निवत्र्त्यते । यावत्सागरप्रमितमायुर्भवति तावत्पक्षैश्च देवानां श्वासोच्छ्वासो भवति ॥५०॥ $ ९४ द्वाविंशतीति — समानां वर्षाणां द्वाविंशतिसहस्रैश्च सकृदेकवारम् आहरेत् आहारग्रहणं कुर्यात् । तथा २० एकादशभिर्मासैः सकृदेकवारम् उच्छ्वसितं श्वासग्रहणं भजेत् प्राप्नुयात् पूर्वोक्तोऽसावच्युतेन्द्र इति कर्तृसंबन्धो योज्यः ॥ ५१ ॥ ई९५ ) संचारिणीभिरिति - ललिता मनोहारिणी आकृतिर्यस्य तथाभूतः, एषोऽयम् अच्युतेन्द्रः संचारिणीभिः संचरणशीलाभिः हेमलताभिरिव सुवर्णवल्लीभिरिव आभिर्देवीभिः सह कुमुद्वतीषु कुमुदयुक्तासु दिव्यसरसीषु कमनीयकासारेषु मन्दाराणां कल्पवृक्षाणां सुन्दराणि वनानि येषु तथाभूतेषु मन्दरेषु च सुमेरुपर्वतेषु च चिक्रीड क्रोडति स्म । वसन्ततिलका छन्दः || ५२ ॥ $ ९६ ) ततश्चेति — देवीजनस्य शोकाग्नेविरह२५ जनिष्यमाणशोकानलस्य विस्फुलिङ्गेषु कणेष्विव तस्याच्युतेन्द्रस्य स्वर्गात्त्रिदिवात्प्रच्युतेः प्रच्यवनस्य लिङ्गेषु चिह्नेषु प्रकटीभवत्सु सत्सु धीरधीरमतिशयधीरं मनो यस्य तथाभूतः सोऽयं पूर्वोक्तः अच्युतेन्द्रः षण्मासान् अत्यन्तसंयोगे द्वितीया अनवरतं षण्मासपर्यन्तमित्यर्थः अत्याश्चर्यां सातिशयां सपर्यां पूजां विधाय त्रिदिवात् ३५ रादिरसका सद्भाव उचित ही था परन्तु स्तनोंका समूह नीरसहित - नीरस मनुष्योंके लिए हितकारी नहीं था ) ९९३ ) व्यरत्नीति — तीन हाथ प्रमाण ऊँचे वैक्रियिक शरीरसे सुशोभित ३० इस अच्युतेन्द्रका मैथुन मानसिक था तथा आहार भी मैथुनके समान मानसिक था अर्थात् मनमें इच्छा होते ही तृप्ति हो जाती थी ॥५०॥ ९४ ) $ द्वाविंशतीति -- वह अच्युतेन्द्र बाईस हजार वर्षों में एक बार आहार करता था तथा ग्यारह माह में एक बार श्वासोच्छ्वास ग्रहण करता था ॥५१॥ $ ९५ ) संचारिणोभिरिति - सुन्दर शरीरका धारक यह अच्युतेन्द्र चलती फिरती स्वर्णलताओंके समान इन देवियोंके साथ कुमुदोंसे युक्त सुन्दर सरोवरोंमें तथा कल्पवृक्षोंके सुन्दर वनोंसे सहित सुमेरु पर्वतों पर क्रीड़ा करता था ।। ५२ ।। ६९६ ) ततश्चेति - तदनन्तर देवीजनोंके शोकरूपी अग्निके तिलगोंके समान स्वर्गसे च्युत होनेके चिह्न प्रकट होने पर अत्यन्त धीर मनका धारक वह अच्युतेन्द्र छह माह तक अर्हन्तपरमेष्ठीकी अतिशय [ ३९९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy