________________
-७६ ]
द्वितीयः स्तबकः राजानमुज्जयति यस्य मुखं प्रतापो
हंसं यशश्च विमलं किल राजहंसम् ॥३९।। ६७२) यस्य चन्द्रनिभा कोतिहासहृद्यं मुखाम्बुजम् ।
करश्च समरारम्भे चन्द्रहासमनोरमः ।।४०॥ $ ७३ ) सुमाभं यस्य हसितं भ्रूयुगं चापसंनिभम् ।
राजते यः शरीरेण सुमचापमनोहरः ।।४।। $ ७४ ) यः काञ्चनश्रियं धत्ते यशो यस्याचलं भुवि ।
यो धैर्येण महिम्ना च काञ्चनाचलसंनिभः ।।४२॥ ६७५ ) यस्याम्बरोज्ज्वलो देहो मणिभिश्च विराजितः।
यश्चकास्ति प्रतापेन जिताम्बरमणिः सदा ।।४३।। ६७६ ) प्रभया तुलयत्येष स्वर्णमब्जं करेण च ।
प्रभाकरेण तुलयन्प्रतापं यो विराजते ॥४४॥
'इत्यमरः । विमलं निर्मलं यशः कीर्तिः राजहंसं मरालविशेषम् उज्जयति पराजयते, निरवा निर्दृष्टं रूपं सौन्दर्यं यस्य तथाभूतः सोऽयं वज्रजङ्घः इदं पट्टकं चित्रफलकं त्वनिर्मितं निर्वर्ण्य दृष्ट्वा तत्पट्टके विलिखितं समङ्कितं स्फुटं यथा स्यात्तथा आह जगाद । उपमा । वसन्ततिलकावृत्तम् ॥३९॥ १५ $७२) यस्येति-यस्य वज्रजङ्घस्य कीर्तिः समज्ञा चन्द्रविभा शशिसदृशी, मुखाम्बुजं वदनारविन्दं हासेन मन्दस्मितेन हृद्यं मनोहरम्, करश्च हस्तश्च समरारम्भे युद्धारम्भे चन्द्रहासेन खड्गेन मनोरमो रमणीयः आसीदिति शेषः ॥४०॥ $ ७३ ) सुमाममिति-यस्य वज्रजङ्घस्य हसितं हास्यं सुमाभं पुष्पसदृशं, भ्रूयुगं भ्रकुटियुगलं चापसंनिभं धनुःसदृशं, यः स्वयं च शरीरेण देहेन सुमचाप इव काम इव मनोहरः कमनीय आसीत् ॥४१।। ६७४) य इति-यो वज्र जङ्घः काञ्चनश्रियं सुवर्णशोभां धत्ते दधाति, यस्य वज्रजङ्घस्य यशःकीतिः २० भुवि अचलं स्थायि वर्तत इति शेषः । यो वज्रजङ्घो धैर्येण स्थैर्येण महिम्ना च माहात्म्येन च काञ्चनाचलसंनिभः सुवर्णशैलसदृशः अस्तीति योज्यम् ॥४३॥ ६ ७५ ) यस्येति-यस्य वज्रजङ्घस्य देहः कायः अम्बरैवस्त्रैरुज्ज्वलः शोभमानः, मणिभिः रत्नैः विराजितश्च शोभितश्च अस्तीति शेषः । यश्च प्रतापेन तेजसा जितोऽम्बरमणिः सूर्यो येन तथाभूतः सन् सदा चकास्ति शोभते ॥४३॥ $ ७६ ) प्रमयेति-एष वज्रजङ्घः प्रभया कान्त्या स्वर्णं हेम तुलयति उपमिनोति करेण पाणिना अब्ज कमलं च तुलयति । यश्च प्रतापं तेजः २५
को जीतता है तथा जो निर्दोषरूपका धारक है ऐसा वह वज्रजंघ इस चित्रपट को देखकर उसमें लिखी हुई बातोंको स्पष्ट रूपसे कहने लगा ॥३९।। ६७२) यस्येति-जिसकी कीर्ति चन्द्रमाके समान है, मुख मन्दहास्यसे सुन्दर है और जिसका हाथ युद्धके प्रारम्भमें चन्द्रहास-तलवारसे सुन्दर है॥४८॥ ६७३) सुमाभमिति-जिसका हास्य फूलके समान है, भौंहोंका युगल धनुषके समान है और जो स्वयं शरीरसे कामदेवके समान मनोहर है ॥४१॥ ३०
७४) य इति-जो वज्रजंघ सुवर्णकी शोभाको धारण करता है, जिसका यश पृथिवीपर स्थायी है तथा जो धैर्य और महिमाके द्वारा सुमेरुके समान है ॥४२॥ ६ ७५ ) यस्येतिजिसका शरीर वस्त्रोंसे देदीप्यमान है तथा मणियोंसे सुशोभित है और स्वयं प्रतापसे सूर्यको जीतता हुआ सुशोभित रहता है ॥४३॥ ६७६ ) प्रभयेति-यह प्रभासे स्वर्णकी तथा हाथसे कमलकी तुलना करता है और जो प्रतापको सूर्यसे उपमित करता हुआ सुशोभित है ॥४४॥ ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org