SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७२ पुरुदेवचम्पूप्रबन्धे [२।१५५$ ५५ ) मालतीसुकुमाराङ्गि ! माननीयगुणे सुते ! ततोऽस्मद्गुरुरेवासोत्तवाप्यभ्यहितो गुरुः ॥३०॥ $ ५६) एवं गुरुस्नेहेन मया पूजितेषु द्वाविंशतिललिताङ्गेषु चरमस्तव भर्ता प्राग्भवे महाबलः स्वयंबुद्धोपदेशविलसितदेवभूयो ललिताङ्गस्त्रिदिवाच्च्युतः सोऽयमिदानीमस्माकं ५ प्रत्यासन्नतमो बन्धुः संजातस्तव च भर्ता भविष्यति । $ ५७ ) अन्यद्वक्ष्याम्यभिज्ञानं कन्ये ! धन्यगुणे शृणु । यस्याः कचाः कटाक्षाश्च शिलीमुखमदापहाः ॥३१।। $५८) पुरा किल युवाभ्यां दम्पतोभ्यां समन्वितोऽहं युगंधरतीर्थलब्धसम्यग्दर्शनाभ्यां ब्रह्मेन्द्रलान्तवाभ्यां तच्चरितं पृष्ट एवमवोचम् । १० अनशनव्रतं प्रतिपादयामास कथयामास । $ ५५ ) मालतीति-मालतीवत् सुकुमारं मृदुलमङ्गं यस्यास्तत्संबुद्धी हे मालतोसुकुमाराङ्गि ! माननीया आदरणीया गुणा यस्यास्तत्संबुद्धौ हे माननीयगुणे सुते ! पुत्रि! ततस्तस्मात् कारणात्, अस्मद्गुरुरेव तवापि अभ्यहितः पूजितो गुरुरासोद् बभूव । $ ५६ ) एवमिति-एवमनेन प्रकारेण गुरुस्नेहेन गुरुजन्मस्नेहेन मयाच्युतेन्द्रेण पूजितेषु सत्कृतेषु द्वाविंशतिललिताङ्गेषु, अच्युतेन्द्रस्य स्थिति विंशतिसागरप्रमिता बभूव ततस्तस्येन्द्रत्वे ऐशानस्वर्गे द्वाविंशतिललिताङ्गा अभूवन् सर्वेषां चाच्युतेन्द्रेण १५ समानः सत्कारः कृत इत्यर्थः । तेषु द्वाविंशतिललिताङ्गेषु चरमो ललिताङ्गो देवस्तव वल्लभ आसीत् । सोऽयं प्राग्भवे महाबलोऽभूत् स्वयंबुद्धस्य तन्नामामात्यस्योपदेशेन विलसितं प्राप्तं देवभूयं देवत्वं यस्य तथाभूतो ललिताङ्गः त्रिदिवात् स्वर्गात् च्युतः सन् इदानीं सांप्रतम् अस्माकमतिशयेन प्रत्यासन्नो निकट इति प्रत्यासन्नतमो बन्धुः पितृष्वसृसुतः संजातः तव च भर्ता भविष्यति । $ ५७ ) अन्यदिति-यस्यास्तव कचाः केशाः कटाक्षा अपाङ्गाश्च शिलीमुखानां भ्रमराणां बाणानां च मदापहा गर्वापहारकाः सन्ति, एवंभूते धन्यगुणे २० प्रशस्तगुणयुक्त कन्ये ! अन्यदपि अभिज्ञानं परिचायकचिह्न वक्ष्यामि कथयिष्यामि शृणु समाकर्णय । 'शिली मुखो भवेद्भुङ्ग मार्गणे च शिलोमुखः' इति विश्वलोचनः ॥३१॥ ६ ५८ ) पुरेति-पुरा किल पूर्वस्मिन्काले युवाम्यां स्वयंप्रभाकलिङ्गाम्यां जाया च पतिश्चेति दम्पती ताभ्यां 'जायाया जम्भावो दम्भावश्च वा निपात्यते' इति वार्तिकेन जायास्थाने दम्भावो निपातितः, समन्वितः सहितोऽहमच्युतेन्द्रो युगंधरस्य तीर्थे लब्धं सम्यग्दर्शनं याभ्यां ताभ्यां ब्रह्मेन्द्रलान्तवाभ्यां ब्रह्मेन्द्रलान्तवेन्द्राभ्यां तच्चरितं युगंधरजिनेन्द्रचरितं पृष्टः सन् एवमनेन २५ गुणसम्पत्ति और श्रुतज्ञान नामके अनशनबत दिये थे। ६ ५५ ) मालतीति-मालतीके समान कोमल शरीर वाली ! तथा माननीयगुणोंसे युक्त हे पुत्रि! इस तरह जो हमारे गुरु थे वही तुम्हारे भी पूजनीय गुरु हुए ॥३०॥ $५६) एवमिति-इस प्रकार गुरुके स्नेहसे मेरे द्वारा सम्मानको प्राप्त हुए बाईस ललितांग देवोंमें अन्तिम ललितांग तुम्हारा पति था। यह पूर्वभवमें महाबल था, स्वयंबुद्ध मन्त्रीके उपदेशसे उसे देवपर्याय मिली थी। वह ललितांग ३० स्वर्गसे च्युत होकर इस समय हमारा अत्यन्त निकटका भाई हुआ है वही तुम्हारा पति होगा। ६ ५७) अन्यदिति-हे प्रशंसनीयगुणोंसे युक्त बेटी ! सुन, एक दूसरी पहचान और कहता हूँ । तेरे केश और कटाक्ष दोनों ही शिलीमुखोंका गर्व नष्ट करने वाले हैं अर्थात् केश तो शिलीमुख-भ्रमरका मद नष्ट करने वाले हैं अर्थात् उससे भी अधिक काले हैं और कटाक्ष शिलीमुख-बाणका गर्व नष्ट करनेवाले हैं अर्थात् बाणसे भी अधिक गहरा आघात करनेवाले ३५ हैं ॥३१।। ६ ५८) पुरेति-पहले कभी मैं आप दोनों दम्पतियों ( ललितांग और स्वयंप्रभा) के साथ था उस समय युगन्धर महाराजके तीर्थ में जिन्हें सम्यग्दर्शन प्राप्त हुआ था ऐसे ब्रह्मेन्द्रलान्तवेन्द्रने मुझसे युगन्धर महाराजका चरित पूछा था, तब उनका चरित मैंने इस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy