________________
४१८
[ पार्धाभ्युदये
op their former course of conduct, bent down through devotion [ to Him ], approached Him in whom they found their protector.
इति विरचितमेतत्काव्यमावेष्टय मेघ
बहुगुणमपदोषं कालिदासस्य काव्यम् । मलिनितपरकाव्यं तिष्ठतादाशशाङ्क भुवनमवतु देवस्सर्वदामोघवर्षः ॥ ७० ॥
अन्वयः- इति बहुगुणं अपदोषं, मलिनितपरकाव्यं कालिदासस्य काव्य आवेष्ट्य विरचितं एतत् [ मलिनितपरकाव्यं ] काव्यं आशशाङ्क तिष्ठतु । अमोघवर्षः देवः सर्वदा भुवनं अवतु।
___इतीत्यादि । इति अनेन प्रकारेण । पूर्वोक्तप्रकारेणेत्यर्थः । बहुगुणं विपुलगुणं । बहवो विपुलाः गुणाः रसोत्कर्षकारिणो माधुर्यादयो यस्मिस्तत् । रसोत्कर्षकारिमाधुर्यादिगुणवैपुल्यसङ्कुलमित्यर्थः । अपदोषं अपगताः रसापकर्षकारिणः दोषाः यस्मात्तत् । काव्यरसापकर्षकारिदोषकुलविकलमित्यर्थः । मलिनितपरकाव्यं मलिनीकृतान्यकाव्यसन्दोहं । मलिनितं मलिनीकृतम् । 'मृदो ध्वर्थे णिज् बहुलम्' इति मृदो ध्वर्थे णिच् । तदन्ताच्च क्तः । मलिनितानि पर काव्यानि येन तत् । कालिदासस्य भारतवर्षप्रसिद्धस्य कालिदासाभिधानस्य महाकवेः काव्यं मेघदूतसझं खण्डकाव्यं आवेष्टय आदी मध्ये अन्ते वैकां पङ्क्ति पङ्क्तिद्वयं वोपस्थाप्य विरचितं विहितं एतत् पार्श्वभ्युदयाख्यं काव्यं मलिनितपरकाव्यं महाकाव्यं आशशाङ्क यावच्चन्द्रमसं तिष्ठतात् तिष्ठतु । 'तुह्योर्ड्सात् ' इति तोराशिषि ङ्तात् । बहुगुणमित्यादिविशेषणत्रयं पाभ्युदयाख्यकाव्यविषयेऽपि योजनीयम् । अमोघवर्षः राष्ट्रकूटवंश्यो बङ्कापुरराजधानीवास्तव्योऽमोघवर्षाभिधानः महाराजः, पक्षे सफलवृष्टिः । अमोघः सफलः वर्षः वृष्टिः यस्य सः । देवः राजा पक्षे मेघः । 'देवो राशि सुरे मेधे देवं स्यादिन्द्रिये मतम् ।' इति विश्वलोचने । सर्वदा सर्वकालं भुवनं जगत् अवतु रक्षतात् । अत्र प्रार्थनायां लोट् ।
May this poem, intertwined thus with a line or two of each of the stanzas of Kalidasa's poem, abounding in merits, void of faults, [ and ] defiling all other poems, exist until the existence of the moon. May the cloud [ otherwise, the king], pouring showers of rain growing crops [ otherwise, Ameghavarsha ] protect [ rule ] the earth always.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org