________________
चर्तुः सर्गः]
४१७
अन्वयः- इति विदितमहर्द्धि धर्मसाम्राज्यं जिनं अवनतिभाजः नाकभाजां इन्द्राः भेजिरे | शिथिलितवनवासाः तापसाः प्राक्तनी वृत्तिं प्रोज्झ्य भक्तिनम्राः [ सन्तः ] तं शरणं उपययुः ।
___ इतीत्यादि । इति अनेन प्रकारेण । अनन्तरपूर्वश्लोकोक्तप्रकारेण सातिशयैरित्यर्थः । विदितमहार्द्ध निखिललोकविज्ञातमहैश्वर्यम् । महती चासो ऋद्धिः योगशक्तिश्च महर्द्धिः । 'ऋद्धिः स्यादोषधीभेदे योगशक्तौ च बन्धने' इति विश्वलोचने । 'आङ् महतो जातीये च' इति महतः आङादेशः । विदिता ज्ञाता लोकैः महर्द्धियस्य सः विदितमहार्द्धः । तम् । 'विदितं स्वीकृते ज्ञाते' इति विश्वलोचने । विश्वजनविज्ञातप्रबलथोगशक्तिमित्यर्थः । धर्मसाम्राज्यं शुद्धज्ञानघनैकस्वभावात्यर्थराजमानत्वम् । धर्मेणात्मस्वभावेन समन्ताद्राजत इति धर्मसम्राट्। 'किप्' इति कि । तस्य भावः धर्मसाम्राज्यं । तदस्यास्तीति धर्ससाम्राज्यः । तम् । ' ओऽभ्रादिभ्यः । इत्यो मत्वर्थीयः । यद्वा धर्मस्य साम्राज्यं विद्यते यस्य सः धर्मसाम्राज्यः । तम् । जिनं भगवन्तं पार्श्वजिनम् । अवनतिभाजः प्रणतिभाजः । अवनति प्रणतिं भजते इति अवनतिभाक् । ते | 'भजो ण्विः' इति ण्विः । नाकभाजां स्वर्गिणाम् । न विद्यतेऽकं दुःखं यत्र स नाकः । 'अकं दुःखाघयोः ' इति विश्वलोचने । नाक भजन्ते इति नाकभाजः । पूर्ववणिः । इन्द्राः शक्राः । 'इन्द्रः शक्रात्मसूर्येषु योगेऽपि' इति विश्वलोचने । देवाधिपतय इत्यर्थः । भेजिरे सिषेविरे। शिथिलितवनवासाः श्लथीकृतविपिननिवसनाः । वने वासः वनवासः । शिथिलितः शिथिलः कृतः । 'मृदो ध्वर्थे णिज्बहुलम्' इति करोत्यर्थे णिच् । णिचि च क्तः। शिथिलितः परित्यक्तः वनवासः यस्ते । आत्मस्वरूपचिन्तनमन्तरेण मुक्तेरसम्भव इति जातप्रत्ययास्सन्तः वनवास परितत्यजुरिति भावः । परित्यक्तविपिनाधिवासबुद्धयः इत्यर्थः । तापसाः पञ्चामयो धृतव्रताः प्राक्तनीं धृतपूर्वा पञ्चामितपश्चरणादिरूपां वृत्तिं आचरणं प्राज्झ्य परित्यज्य भक्तिनम्राः सन्तः अनुरागेण नमनशीलाः । ' नम्कम्पि-' इत्यादिना रत्यः । तं भगवन्तं पार्श्वजिनेन्द्रं शरणं रक्षितारं उपययुः शिश्रियिरे। कायक्लेशादिरूपस्य तपसो वैयर्थ्य विनिश्चित्य भगवदाचरितं तपो लब्धुकामाः तपोमहिम्ना सम्प्राप्तमहोदयं पार्श्वजिनेन्द्रं स्वरक्षणार्थमुपजग्मुरिति भावः ।
___ The lords of gods, bowing down, worshipped Jina, whose supernatural power was, thus, known to all, and who enjoyed universal sovereignty owing to attaining completely the [ flawless ] nature of His soul. Ascetics, who abandoned residing in forests, having given
पार्श्वभ्युदय...२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org