________________
४१६
सपदि जलदमुक्तैः सान्द्रगन्धाम्बुपातैः मधुपगण विकीर्णैराश्वसत्क्ष्मा क्षतोष्मा | वियति मधुरमुच्चैर्दुन्दुभीनां च नादः सुरकरतलगूढास्फालितानां जजृम्भे ॥ ६८ ॥
[ पार्श्वाभ्युदये
अन्वयः- जलदमुक्तैः मधुपगणविकर्णैः सान्द्रगन्धाम्बुपातैः क्षतोष्मा क्ष्मा सपदि आश्वसत् वियति च सुरकरतल गूढास्फालितानां दुन्दुभीनां नादः मधुरं उच्चैः जजृम्भे ।
सपदीत्यादि । जलदमुक्तैः जलधरविसृष्टैः । मेघेभ्यः पतितैरित्यर्थः । मधुपगणविकीर्णैः विकीर्णमधुलिङ्गणैः । मधु पिवतीति मधुपः । मधुपानां मधुपायिनां गणाः मधुपगणाः । ते विकीर्णाः यत्र । तैः । ' वाहिताम्यादिषु ' इति क्तान्तस्य परनिपातः । सान्द्रगन्धाम्बुपातैः निविडसौरभ्यजलवृष्टिभिः । सान्द्रः निविडः गन्धः येषां तानि सान्द्रगन्धानि । सान्द्रगन्धानि च तान्यम्बूनि जलानि च । तेषां पाताः वृष्टयः । तैः । क्षतोमा विनष्टोत्तापा । क्षतः विनष्टः ऊष्मा उत्तापः यस्याः सा । क्ष्मा भूमिः सपदि झटिति आश्वसत् सुखिता बभूव । वियति च व्योम्नि सुरकरतलगूढास्फालितानां त्रिदशहस्ततलैः रहसि ताडितानाम् । सुराणां देवानां करतलानि पाणितलानि सुरकरतलानि । तैः गूढं आस्फालिताः ताडिताः । तेषां तासां वा । यद्वा सुरैः देवैः करतलैः गूढं रहसि आस्फालिताः । तेषां तासां वा । दुन्दुभीनां भेरीणां । ' भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । नादः ध्वनिः मधुरं श्रुतिसुखं यथा स्यात्तथा । उच्चैः अत्यथ जजृम्भे वृद्धिं जगाम ।
The earth, with heat diminished by the falls of abundantly fragrant water discharged by clouds, having hordes of bees scattered over, became comforted, and in the sky, the sound of kettle-drums, beaten secretly with palms of hands by gods, became cxcessively heightened charmingly.
इति विदितमहार्द्धं धर्मसाम्राज्यमिन्द्राः
जिनमवनति भाजो भेजिरे नाकभाजाम् । शिथिलितवनवासाः प्राक्तनीं प्रोज्झ्य वृत्तिं शरणमुपययुस्तं तापसा भक्तिनम्राः ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainejibrary.org