SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] श्रीवीरसेनमुनिपादपयोजभृङ्गः श्रीमानभूद्विनयसेनमुनिगरीयान् । तचोदितेन जिनसनमुनीश्वरेण काव्यं व्यधायि परिवेष्टितमेघदूतम् ॥ ७१ ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचितमेघदूतवेष्टितवेष्टिते पा - भ्युदये भगवत्कैवल्यवर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥ अन्वय- श्रीवीरसेनमुनिपादपवाजेभृङ्गः श्रीमान् गरीयान् विनयसेनमुनिा अभूत् । तच्चोदितेन जिनसेनमुनीश्वरेण परिवष्टितमेघदूतं काव्यं व्यधायि । श्रीत्यादि । श्रीवीरसेनमुनिपादपयोजभृङ्गः श्रिया ज्ञानतपोलक्षणयोपलक्षितः वीरसेनः श्रीवीरसेनः । स चासौ मुनिश्च । तस्य पादावेव पयोजे श्रीवीरसेनमुनिपादपयोजे । तत्र भृङ्गः इव भृङ्गः। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । श्रीमान् तपोलक्ष्मीरूपा श्रीरस्यास्तीति श्रीमान् । गरीयान् गुरुतरः। ईयसि गुरोर्गरादेशः । विनयसेनमुनिः विनयसेनाभिख्यस्तपस्वी अभूत् बभूव । तच्चोदि. तेन विनयसेनमुनिप्रवरप्रेरितेन जिनसेनमुनीश्वरेण जिनसेनाचार्येण परिवेष्टितमेघदूतं मेघदूताख्यखण्डकाव्यपरिवेष्टितम् । परितः वेष्टितं आक्रान्तं मेघदूतं तदाख्यं कालिदासविरचितं काव्यं येन तत् । कान्यं सर्गबद्धं महाकाव्यं व्यधायि व्यरचि । विरचितमित्यर्थः । इति श्रीपार्वाभ्युदये मुक्तेन्दुवर्मविरचितायां बालप्रबोधिन्याख्यावां तद्व्याख्यायां च भगवत्कवल्यवर्णनो नाम चतुर्थः सर्गः। There was a sage, Vinayasena by name, resembling:a bee hovering on the lotuses in the form of the feet of the revered sage, Virsena by name. This poem, covering the whole of Meghadata., was written by Acharya Jinsena who was impelled by him [ the rovered Vinayasena ). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy