________________
चतुर्थः सर्गः]
४१३
The demon, formerly Kamatha, thus making amends for misdeeds. perpetrated by himself, said again- ' Oh Lord, resembling a cloud showering down water [i.e. rain ] in the form of righteousness, like a new cloud, baving splendour increased by the rainy season, making happy all the living beings of this world, overspread with [ umbrellalike ] big unfolded hoods of the lord of serpents, roam about over agreeable regions.
यत्तन्मौढयाबहुविलसितं न्यायमुल्लङ्ग्य वाचा
तन्मे मिथ्या भवतु च मुने दुष्कृतं निन्दितस्वम् । भक्त्या पादौ जिन विनमतः पार्श्व मे तत्प्रसादात __ मा भूदेवं क्षणमपि सने विद्युता विप्रयोगः ॥६५॥
अन्वयः- मुने जिन पार्श्व सखे । भक्त्या पादौ विनमतः में तत्प्रसादात् यत् मौढयात् न्यायं उलङध्य मे वाचां बहुविलसितं तत् मिथ्या भवतु, निन्दितस्वं [ मे ] दुष्कृतं च [ मिथ्या भवतु] । एवं क्षणं अपि विद्युता विप्रयोगः मा भूत् । __यदित्यादि । मुने ध्यानैकतान । मननाद्ध्यानैकतानत्वान्मुनिः। तस्य किः । जिन अष्टादशप्रकारकक्षुधादिदोषविजेतः अर्हन् । अष्टादशदोषान् क्षुत्पिपासादाञ्जयतीति जिनः । तस्य किः। पार्श्व भगवन् पार्श्वनाथ । सखे मित्र । कमठचरस्य शम्बराभिधानस्यासुरस्य विवान्तभगवद्विषयकवैरत्वात्तत्कृतं 'सखे' इति भगवद्विषयक सम्बोधनमेतन्न्याय्यमेव । भक्त्या अनुरागेण पादौ भवतश्चरणौ विनमतः प्रणमत: मे शम्बरासुरस्य मम तत्प्रसादात् तयोर्भवतश्चरणयोः प्रसादादनुग्रहात् यत् मौढ्यात् दर्शनमोहनीयोदयजनितादज्ञानात् । न्यायं उल्लङ्घ्य साधुवृत्तमतिक्रम्य मे मम दुवृत्तस्य कमठचरस्य शम्बरासुरस्य वाचां आलपितानां बहुविलसितं बहुप्रकारं चेष्टितम् । बहु विविधप्रकारं च तद्विलसितं च चेष्टितं बहुविलसितम् । नानाविधाश्चेष्टाः. इत्यर्थः। तत् नानाविधं वाचामन्याय्यं चेष्टितं मिथ्या निष्फलं भवतु भूयात् निन्दितस्वं प्रतिक्रान्तस्वरूपं । निन्दितः गर्हितः स्वः आत्मा स्वरूपं यस्य तत् । 'स्वो ज्ञातावात्मनि' इति विश्वलोचने । मे दुष्कृतं च । पापकर्म च । दुष्टं कृतं कर्म दुष्कृतम् । दुष्कर्मेत्यर्थः । मिथ्या भवतु इति शेषः। एवं अनेनैव प्रकारेण क्षणमपि क्षणमात्रकालमपि विद्युता आत्मस्वभावभूतेन ज्ञानेन । द्योतते प्रकटीकरोति आत्मस्वरूपमिति स्वपराविति वा द्युत् । किम् । विशिष्टा द्युत् प्रकाशः ज्ञानं विद्युत् । आत्मस्वभावभूतं सम्यग्ज्ञानमित्यर्थः । तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org