SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ४१४ [ पार्श्वाभ्युदये विद्युता । विप्रयोगः वियोगः मा भूत् न भवत् । 'लुङ्लङ्लङमाङाट् ' इत्यडागमप्रतिषेधः । Oh friend Jina Parsva, absorbed in meditation! may the various operations of the speech, carried, through ignorance, into effect, setting at nought the moral conduct, of me, bowing down to your feet devoutedly, as well as the misdeeds [ perpetrated by me ], the nature of which is censured, be rendered fruitles through favour of your feet ! Similarly, may not separation of me from right knowledge be carried into effect even for a moment ! अनुनयति सतीत्थं भक्तिनम्रण मूर्ध्ना कमठदनुजनाथे नागराजन्यसाक्षात् । ध्रुवमनुशयत साद्वैरबन्धश्चिरात्तः स्म गलति निजचित्तात्सन्तताश्रुच्छलेन ॥ ६६ ॥ अन्वयः--- - नागराजन्यसाक्षात् कमठदनुजनाथे भक्तिनम्रेण मूर्ध्ना इत्थं अनुनयति सति अनुशयतप्तात् निजचित्तात् चिरात्तः वैरबन्धः सन्तताश्रुच्छलेन ध्रुवं गलति स्म । 1 अनुनयतीत्यादि । नागराजन्यसाक्षात् सर्पाधिराजसमक्षम् । नागानां राजन्यः नागराजन्यः । तस्य साक्षात् समक्षं नागराजन्यसाक्षात् । राज्ञः अपत्यं राजन्यः । 'जातौ राज्ञः' इति जातौ ये परे ' येऽङ ' इति टिखम् । कमठदनुजनाथे कमठचरदैत्याधिपे । दनुजानां दैत्यानां नाथः दनुजनाथः । कमठः एव दनुजनाथः कमठदनुजनाथः । तस्मिन् । 'यद्भावाद्भावगतिः ' इति ईप् । भक्तिनम्रेण अनुराग'विनतेन । भक्त्याऽनुरागेण नम्रः विनतः भक्तिनम्रः । तेन । 'नम्कम्पिस्म्यजस्कम्हिसदीपो र:' इति रः । मूर्ध्ना शिरसा इत्थं अनेन प्रकारेण अनुनयति सति प्रार्थयमाने सति । अनुनयतीत्यनुनयन् प्रार्थयमानः । तस्मिन् सति । प्रणामादिना विनयमादधति सति इत्यर्थः । अनुशयतप्तात् पश्चात्तापेन सन्तप्तात् निजचित्तात् स्वहृदयात् चिरात्तः चिरगृहीतः । चिरात् चिरातीतकालादात्तः गृहीतः चिरात्तः । वैरबन्धः वैरविरचनम् । वैरस्य शात्रवस्य बन्धः विरचनं वैरबन्धः । सन्तताश्रुच्छलेन अविच्छिन्नाश्रुधाराव्याजेन | सन्ततान्यविच्छिन्नान्यश्रूणि सन्तताश्रूणि । तेषां छलं व्याजः । तेन । ध्रुवं निश्चयेन गलति स्म अच्योष्ट | अगलदित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy