________________
४१२
[ पार्धाभ्युदये लोकाहलादी नव इव घनो देव धर्माम्बु वर्ष
निष्टान्देशान्विचर जलद् प्रावृषा सम्भूतश्रीः ॥६४॥
अन्वयः- कमठदनुजः इत्थङ्कारं स्वापकारं प्रमार्जन भूयः आह स्म - 'देव जलद प्रावृषा सम्भृतश्रीः नवः घनः इव धर्माम्बु वर्षन् लोकालादो प्रकटितमहाभोगभोगीन्द्रगूढः इष्टान् देशान् विचर। .
इत्थकारमित्यादि । कमठदनुजः कमठचरासुरः इत्थंकारं अनेन प्रकारेण । पूर्वश्लोकोक्तप्रकारेणेत्यर्थः । इत्थमिति शब्दस्य कृप्रयोगाभावे योऽर्थस्तस्यैव कृञ्प्रयोगेऽपि विद्यमानत्वात् 'कृतोऽन्यथैवकथमित्यस्वनर्थात्' इति प्रयुक्तात् कृत्रा खमुञ्। स्वापकारं कृतपूर्व स्वकीयं अपराधम् । स्वस्य स्वकृतः अपकारः भगवच्छिरसि दृषत्पातनस्त्रीमयनिकृत्यादिरूपः अपराधः स्वापकारः। तम् । प्रमार्जन् प्रक्षालयन् भूयः पुनः आह स्म अब्रवीत् । देव भगवन् पार्वजिनेन्द्र जलद मेघसमान। जलदः इव जलदः । तस्य किः । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । सद्धर्मामृत. वर्षकत्वाज्जलदति सम्बोधनं समीचीनम् । प्रावृषा वर्षाकालेन। प्रवर्षेतीति प्रावृट् । 'नहिवृतिवृषिव्यधिरुचिसहितनौ' इति गेर्दीः। सम्भृतश्रीः प्रचितशोभः । समन्ता
भृता प्रपूरिता श्रीः शोभा यस्मिन् सः सम्भृतश्रीः । 'श्रीलक्ष्मीभारतीशोभाप्रभासु सरलद्रुमे । वेशत्रिवर्गसम्पत्तौ शेषापकरणे मतौ' इति विश्वलोचने । नवः नत्नः घनः इव जीमूतः इव । मेघः इवेत्यर्थः । धर्माम्बु धर्मजलम् । धर्म एवाम्बु धर्माम्बु । यसः। 'वारि कं पयोऽम्भोऽम्बु पाथोऽर्णस्सलिलं जलं' इति धनञ्जयः। वर्षन सिञ्चन् लोकाहलादी जनसन्तोषजननस्वभावः। लोकान् आह्लायतीत्येवं शीलं लोकाङ्लादी। 'शीलेऽजातौ णिन्' इति शीलस्थ गम्यमानत्वाणिन् । प्रकटितमहाभोगभोगीन्द्रगूढः प्रकटीकृतविपुलफटाटोपफणीन्द्रसंवृतशरीरः। प्रकटितः प्रकटीकृतः । 'मृदो ध्वर्थ णिज् बहुलम्' इति णिच् । तदन्तात् क्तः । भोगः फणः । 'पुंसि भोगः सुखेऽपि स्वादहेश्च फणकाययोः। निवेशे गणिकादीनां भोजने पालने धने' इति विश्वलोचने । भोगी नागः । भोगः फणः अस्यास्तीति भोगी। 'भोगी भोगान्विते सर्प ग्रामण्यां राज्ञि नापिते।' इति विश्वलोचने। गूढः संवृतः। महांश्चासौ भोगश्च महाभोगः। प्रकटितः महाभोगः येन सः प्रकटितमहाभोगः । भोगी इन्द्रः इव भोगीन्द्रः। 'व्याघ्रादिभिरुपमेयोऽतद्योगे' इति षसः। प्रकटितमहाभोगश्चासौ भोगीन्द्रश्च । तेन गूढ : संवृतोर्ध्वकायः । इष्टान् अनुरूपान् देशान् जनपदान् विचर विहर। विहारं कुर्वित्यर्थः । 'कालाध्वभावदेशं वाऽकर्म धीनां' इति देशानित्यस्य कर्मत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org