________________
चतुर्थः सर्गः]
४११
करुणया दैन्येन सहितं यथा स्यात्तथा । ' हेऽकाले' इति सहस्य सः । 'झिः सुब्-' इत्यादिना हसः। याचे प्रार्थये। सौहार्दाद्वा सुहृद्भावाद्वा। औदार्यादित्यर्थः । सुहृदो भावः सौहार्दम् । शोभनं हृदयं यस्य सः सुहृदयः । सुहृदयस्येदं सौहार्दम् । 'कच्छादेः' इत्यणि परे 'हृदयस्य हृल्लेखाण्यलासे' इति हृदयस्य हृदादेशः । हृदि परे च ' हृसिन्धुभगे द्वयोः' इति द्वयोरपि पदयोरैम् । यद्वा 'सुहृद्दुहृन्मित्रामित्रे' इत्यनेन निपातितात्सुहृच्छब्दात् 'कच्छादेः' इत्याणि परे 'हृत्सिन्धुभगे द्वयोः' इत्युभयोरप्यैप् । विधुरः इति पापभयाक्रान्तत्वात् कृतपापजनितदुःखाकुलत्वाद्वा । अयं पापभीतः दुःखाकुलः वेति मनसि विधायेत्यर्थः । 'विधुरं तु प्रविश्लेषे प्रत्यवायेऽपि तन्मतम् । विधुरा तु रसालायां विधुरं विकलेऽन्यवत् ' इति विश्वलोचने । मयि मयकि अनुक्रोशबुद्ध्या वा अनुकम्पामयेन मनसा । 'कृपा दयाऽनुकम्पा स्यादनुक्रोशोपि ' इत्यमरः । अत्राणं अशरणम् । 'त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ' इत्यमरः । न विद्यते त्राणं शरणं रक्षिता यस्य सः अत्राणः । तम् । त्रायते इति त्राणः । 'व्यानड् बहुलम् ' इति कतैयनट् । यद्वा नास्ति त्राणं रक्षणं यस्य सः। तम् । अपघृणं निर्दयम् । अकरुणमित्यर्थः । 'कारुण्यं करुणा घृणा' इत्यमरः । अतिप्रौढमायं अतिवृद्धकपटभावं । अत्यर्थं प्रौढा वृद्धिं गता माया कपटाचरणं कपटभावो वा यस्य सः । तम् । दुरीहं दुष्टाभिलाषम् । दुष्टा ईहा अभिलाषः यस्य सः । तम् । पश्चात्तापात् अनुतापात् । कृतापराधस्मृतिजानतमानससन्तापादित्यर्थः । चरणपतितं पादयोरानतम् । चरणौ पतितः चरणपतितः । चरणावितीबन्तं पतितपदेन समस्तम् । 'इप्तच्छ्रितादिभिः' इति षसः । मां शम्बरासुरं पापापेतं पापान्मुक्तम् । पापादपेतः अपगतः पापापेतः। तम् । ' का भ्यादिभिः' इति पापादिति कान्तं पदमपेतपदेन समस्तम् । कुरु विधेहि ।
Oh Lord I showing compassion to all living beings, I, bent down with modesty, request you now [ lit. to-day ] piteously.--' Deliver me, devoid of any protection, merciless, characterized by fraud brought to climax, cherishing wicked desires, fallen at your feet through repentance, from sin either through good-heartedness or through a feeling of compassion towards me because of my being overwhelmed with grief.
इत्थङ्कारं कमठदनुजः स्वापकारं प्रमार्जन
भूयः स्माऽऽह प्रकटितमहाभोगभोगीन्द्रगूढः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org