SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ४१० [ पार्श्वाभ्युदये " " ( पिति कृति तुक् इति प्रान्तत्वात् विपः पित्वात्तस्मिन्परे तुक् । वैरदग्धः वैरदग्धहृदयः । वैरं शात्रवम् । तेन दग्धः । यद्वा पापकृता वैरेण दग्धः । अहं शम्बराभिधानः दैत्यपाशः । ते भवतः पुरः अग्रतः वर्तितुं स्थातुं कथमपि महता कष्टेन सङ्घटे प्रयते । वक्तुं भाषितुं दूरात् दूरे अस्तु । आत्मनि स्वशरीरे । स्वशरीरविषये इत्यर्थः । आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु इति विश्वलोचने । असङ्गात् आसक्त्यभावात् ते अनुचितं अयोग्यं मे प्रियं रुचितं पतलू अनन्तरोत्तरश्लोकोक्तं कार्य मे मम प्रार्थनात् याचनाद्धेतोः कृत्वा विधाय आत्मनः स्वस्थ सौजन्यस्य सानुकम्पत्वस्य परां कोटिं आत्यन्तिकं प्रकर्षे । ' कोटिः सङ्ख्यान्तरा प्रयोः । अत्युत्कर्षप्रकर्षाश्रिकार्मुकाग्रेषु च स्त्रियाम् ' इति विश्वलोचने । प्रकटय प्रकटीकुरु । ' मृदो ध्वर्थे णिज्बहुलम्' इति करोत्यर्थे णिच् । I, put to shame, possessing wickedness in abundance, committing sin, burning at heart with enmity, am trying to stand before you with a great difficulty. Let alone speaking with you! Manifest a climax of your compassion by doing this [ which is described in the next stanza ], dear [ to me and ] improper [ in your opinion ] owing to your renunciation of attachment to your body [even ], on my request. , अत्राणं मामपघृणमतिप्रौढमायं दुरीहं पश्चात्तापाच्चरणपतितं सर्वसत्त्वानुकम्प । पापापेतं कुरु सकरुणं त्वाऽद्य याचे विनम्रः सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ॥ ६३ ॥ अन्वयः सर्वसत्त्वानुकम्प ! विनम्रः अहं त्वा अद्य सकरुणं याचे | सौहार्दात् वा, विधुर इति मयि अनुक्रोशबुद्ध्या वा अत्राणं अपघृणं अतिप्रौढमायं दुरीहं पश्चात्तापात् चरणपतितं मां पापापेतं कुरु । अत्राणमित्यादि । सर्वसत्त्वानुकम्प प्राणिमात्रे दयाशील । सर्वाणि च तानि सत्त्वानि प्राणिनः सर्वसत्त्वानि । तेषु अनुकम्पा यस्य सः सर्वसत्त्वानुकम्पः । तस्य किः । ( सत्त्वं जन्तुषु न स्त्री स्यात्सत्त्वं प्राणात्मभावयोः । द्रव्ये बले पिशाचादौ सत्तायां गुणवित्तयोः || स्वभावे व्यवसाये च सत्त्वमित्यभिधीयते ' इति विश्वलोचने । विनम्रः अत्यर्थं विनतः । ' नम्कम्पिस्म्यजस्क म्हिसदीपो रः' इति रः । अहं कमठचरः शम्बरासुरः त्वा भगवन्तं पार्श्वजिनेन्द्रं अद्य अधुना सकरुणं सदैन्यं । दीनतयेत्यर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy