SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ] १०९ मन्यस्माच्छ्रेयः इति भावः । कल्पवृक्षः सङ्कल्पपूरणः देवद्रुमः फलानि अभिकाङ्क्षितानि जगते लोकाय । जनेभ्यो दातुमित्यर्थः । किं प्रत्युक्तैः फलति किं प्रतिवचनैः फलेग्रहितां याति । प्रणयिषु सविनयं प्रार्थिषु ईप्सितार्थक्रिया एव अभिकाङ्क्षितफलनिष्पादनमेव । ईप्सितः अभिलषितः अर्थः प्रयोजनं फलं ईप्सितार्थः। तस्य क्रिया निष्पादनमीप्सितार्थक्रिया । 'अर्थः प्रयोजने चित्त हेत्वभिप्रायवस्तुषु । शब्दाभिधेये विषये स्यानिवृत्तिप्रकारयोः' इति विश्वलोचने । हि हेतौ निश्चये वा। यस्मात्कारणात् निश्चयतो वा । ' हि विशेषेऽवधारणे । हि पादपूरणे हेतौ' इति विश्वलोचने । सतां सत्पुरुषाणां प्रत्युक्तं प्रतिवचनम् । उत्तरमित्यर्थः । That demon, with enmity abandoned [ abandoning enmity ] found his protector in the Lord, having his splendour increased in the shadow of those, having perfect and flawless knowledge manifested, and having a lecture-hall constructed [ for Him by Kubera ]. Oh Lord ! if you, though silent, give us bliss desired for, on request, like an amalgamated cloud giving water to the Chataka birds, and if the devotee gots his purpose, desired for, achieved certainly, through You, the excellent [ or matchless ] friend of the fortunate people, it is better. Do the desire-fulfilling trees bear fruits for the sake of the world through words [i. e. replies ] ? Bringing into effect only the purpose, desired for, is a reply of the good to the supplicants. सहीकस्ते कथमपि पुरो वर्तितुं सङ्घटेऽहं दूराद्वक्तुं निकृतिबहुलः पापकृद्वैरदग्धः । सौजन्यस्य प्रकटय परां कोटिमात्मन्यसङ्गात् एतत्कृत्वा प्रियमनुचितं प्रार्थनादात्मनो मे ॥ ६२॥ अन्वयः - सह्रीकः निकृतिबहुलः पापकृत् वैरदग्धः अहं ते पुरः वर्तितुं कथमपि सङ्घटे। वक्तुं दूरात् । आत्मनि असङ्गात् [ ते ] अनुचितं [ मे] प्रियं एतत् मे प्रार्थनात् कृत्वा आत्मनः सौजन्यस्य परां कोटिं प्रकटय । सह्रीक इत्यादि । सह्रींकः सलजः । ह्रिया लजया सहितः सहीकः । 'ऋन्मोः ' इति कप । 'केऽणः' इति प्रत्व प्राप्ते 'न कपि' इति प्रत्वस्य निषेधः। निकृतिबहुलः अपकारबहुलः। निकृतिरपकारो बहुलः प्रचुरः यस्मिन्यस्य वा । कृतबहपकारः इत्यर्थः । पापकृत् पापकर्मकरः । पापं पापकर्म करोतीति पापकृत् । क्विप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy