________________
[ पार्श्वाभ्युदये
८
"
फणाछत्रयोः छाया नातपः तच्छाया । तस्याम् । छाया स्यादतपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिबिम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने || ' इति विश्वलोचने । समधिकरुचि अधिकतर कान्तिम् । ' रुचिरिच्छा रुचा रुक्ता शोभाभिष्वङ्गयोरपि । रुक् शोभायां च किरणे स्त्रियामपि मनोरथे || ' इति विश्वलोचने । उत्पन्नबोधं आविर्भूत केवलज्ञानम् । आत्मनश्शुद्धज्ञानघनैकस्वभावत्वात्तज्ज्ञानस्योत्पत्त्यसम्भवादुत्पत्तिशब्द आविर्भवनार्थवचन एव ग्राह्यो लक्षणया । उत्पन्नशब्दसान्निध्यादात्मनश्च ज्ञानसामान्यत्वाद्बोधशब्दः केवलरूपज्ञानविशेषवचन इत्यभ्यूह्यम् । बद्धास्थानं पाकशासनाज्ञाकारिकुबेर विरचितसमवसरणम् । बद्धं विरचितं आस्थानं सभामण्डपः यस्य स बद्धास्थानः । तम् | आस्थीयतेऽत्र पारिषद्यैरित्यास्थानम् | करणाधारे चानद् इत्याधारेऽनट् | देवं भगवन्तं पार्श्वनाथतीर्थंकरं शरणं रक्षितारम् । ' शरणं गृहरक्षित्रोः शरणं रक्षणे वधे ' इति विश्वलोचने । अकृत अकरोत् । हे भगवन् केवलज्ञानिन् । भगं प्रशस्तं ज्ञानमस्त्यस्येति भगवान् । प्रशंसायामन्त्र मतुः । ' भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्नभानुषु ॥ ' इति विश्वलोचने । यदि प्रत्युत्कीर्णः राशीभूतः विनश्वरो वा जिन पक्षे केवलज्ञानयुक्तः । वारिवाहः बलाहकः । मेघ इत्यर्थः । वारि वहतीति वारिवाहः । कर्मण्यण् । चातकेभ्यः जलरञ्जेभ्यः जलं यथा वारीव । यथा याचितः राशीभूतः घनः निःशब्दः अपि चातकेभ्यः जलं प्रदिशति तथेत्यर्थः । याचितः सन् प्रार्थितः सन् त्वं निःशब्दः अपि वाचंयमतां प्राप्तः अपि । वाग्यतोऽपीत्यर्थः । अस्मभ्यं मह्यम् ।
3
द्वौ चास्मदोऽनुपाधौ ' इति बहुवचनम् । समभिलषितं अभिकाङ्क्षितं श्रेयः कल्याणं मङ्गलं वा । अभ्युदयनिःश्रेयससम्पदमित्यर्थः । ' श्रेयस्तु मङ्गले धर्मे ' इति विश्वलोचने । प्रदिशसि ददासि यदि च भव्यलोकैकमित्रात् रत्नत्रयात्मपरिणतियोग्य पुरुषश्रेष्ठ मित्रात् । रत्नत्रयात्मना भूयतेऽनेनेति भवितुमर्हतीति भवतीति वा भव्यः । ' जन्भूगो यो वा' इति यः । भव्याः रत्नत्रयधारणयोग्याश्च ते लोकाः जनाः भव्यलोकाः । तेषां एकं श्रेष्ठं केवलं मित्रं भव्यलोकैकमित्रं । तस्मात् । < एकस्तु स्यात्रिषु श्रेष्ठे केवलेतरयोरपि ' इति विश्वलोचने । त्वत्तः भवतः पार्श्वजिनेन्द्रात् । भक्तः भक्तिभाक् अभिमतं अभिलषितं फलं लाभम् । फलं तु सस्ये हेतूत्थे फलके व्युष्टिलाभयोः । जातीफलेऽपि ककोले मार्गणाग्रेऽपि न द्वयोः ॥ स्यात् फलं त्रिफलायां च' इति विश्वलोचने । प्राप्नुयादेव निश्चितं लभेत तर्हि श्रेयः ज्यायः । प्रशस्यतरम् । C प्रशस्यस्य श्रः इतीयसि परे प्रशस्यस्य श्रादेशः । यदि भवान् वाचंयमोऽपि श्रेयः प्रदिशसि यदि च भक्तोऽभिमतं फलं त्वत्तो निश्चयेन लभेत तदा त्वदीयं वाचंयमत्व
८
४०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org