SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ४०६ [पार्धाभ्युदये स्वस्वजनाः समाः' इत्यमरः । त्वया भगवता पार्श्वनाथेन भवता। व्यवसितं निश्चितम् । भवतः स्वजनेन मया दृष्टिदानादिकार्य प्रार्थितं भवता कर्तुं निश्चितमित्याशासे । इति अनेन प्रकारेण व्यात्तैः विवृतैः वक्त्रैः मुखैः तदानीं तस्मिन् काले मुनि भगवन्तं पार्श्वजिनेन्द्रं वक्तुकामः वक्तुमिच्छन् । 'सम्तुमार्मनःकामे ' इति तुमः खम् । असौ धरणाख्यो नागराजः स्तुत्यन्ते स्तवनावसानकाले भक्त्या अनुरागेण स्वां स्वकीयां फणालि फटाटोपं । फणानां फटानां आलिः आवलिः फणालिः । ताम् । उच्चैः अत्यर्थं वितत्य विस्तार्य प्रमोदात् प्रहर्षेण भर्तुः भगवतः पार्श्वस्य अधिशिरः शिरसि । ' झिःसुब्-' इत्यादिना विभक्त्यर्थे हसः । द्धत् दधानः । धारयन्नित्यर्थः । छत्रमिव आतपत्रमिव व्यरचयत् व्यररचत् । विरचितवानित्यर्थः । फणास्था छत्रकार्य कारयामासेति भावः । ____ This [ lord of serpents ], at the end of the prayer, at that time, with all his mouths opened, verily desirous of speaking to the sage Oh omniscient ! I hope that this friendly service to me has been decided upon by you', holding upon His head through devotion the row of his hoods, expanding it very much, made it serve like an umbrella. देवी चाऽस्य प्रचलदलका लोलनेन्दुवक्त्रा दिव्यं छत्रं व्यरचदहो धैर्यमित्यालपन्ती। दैत्यस्याऽद्रेर्यदभिदलनं शक्तियोगेऽपि कर्तु प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ॥ ५९ ॥ अन्वयः-'अहो धैर्यम् ! यत् दैत्यस्य अद्रेः अभिदलनं कर्तुं शक्तियोगे अपि प्रत्यादेशात् भवतः धीरतां न खलु कल्पयामि' इति आलपन्ती प्रचलदलका लोलनेत्रा इन्दुवक्त्रा अस्य देवी च दिव्यं छत्रं व्यरचयत् । देवीत्यादि । अहो विस्मये । ' अहो हीति विस्मये' इत्यमरः । धैर्य धीरता । अस्थाश्चर्थकरं धैर्यमित्यर्थः । यत् यस्मात् कारणात् दैत्यस्य शम्बराभिधानस्यासुरस्य अद्रेः भगवतः शिरसि पातितुमुत्थापितस्याचलस्य अभिदलनं कर्तुं शकलीकर्तुं शक्तियोगे अपि शक्तिमत्वेऽपि । शक्त्या सामर्थेन योगः सम्बन्धः शक्तियोगः । तस्मिन् सत्यपि । प्रत्यादेशात् प्रत्याख्यानात् । दैत्याद्यभिदलननिराकरणादित्यर्थः । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' इत्यमरः । भवतः पार्श्वजिनेन्द्रस्य तव धीरतां धैर्य न कल्पयामि मनसाऽपि न चिन्तयामि इति एवं - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy