SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ चर्तुः सर्गः ] ४०५ भयानि चित्तोद्वेगाः । तैः । ओविजी भयचलनयोरित्यस्मादुपसर्ग पूर्वाद्धनि रूपम् । 6 उद्वेग उद्बाहुलके पुमानुद्वेजनेऽपि च । भवेदुद्गमने चाऽयमुद्वेगं मुकीफले ' इति विश्वलोचने । प्रातःकुन्दप्रसवशिथिलं प्रगेतनकुन्दकुसुम श्लक्ष्णम् । प्रातः प्रगेतनकाले यः कुन्दप्रसवः स इव शिथिलं श्लथबन्धनम् । 'प्रसवो गर्भमोक्षे स्याद्वृक्षाणां फलपुष्पयोः । परम्पराप्रसङ्गे च लोकोत्पादे च पुत्रयोः ' इति विश्वलोचने । ' सामान्येनोपमानम् ' इति सः । इदं एतत् गात्रात् अस्य शरीरात् । ' गात्रं गजाग्रजङ्घादिविभागेऽप्यङ्गदेहयोः ' इति विश्वलोचने । प्रपित्सु प्रपतितुमिच्छु । ' सन्भिक्षाशंस्विन्दिच्छादुः इति सन्नन्तादुः । जीवितं प्राणान् धारय प्रपतनान्निवारयस्व । निवारयत्विति प्रार्थये इति भावः । स्वकृतागस्स्मरणजनितानुतापात्पापाद्भीतेश्च कमठचरशम्बरासुर - शरीरात्प्रपतनोन्मुखानस्य प्राणाननुकम्पामधुस्राविण्या दृष्ट्या विलोक्य प्रपतनान्निचारयस्वेति भावः । Oh sage praised by gods, I again implore you; he pleased and cast a glance agreeable owing to compassion, at this demon, in whom [ feelings of ] devotion [ to you ] are intensified; prop up this life [ of him], enfeebled like a Kunda flower in the morning, desirous of flying away from his body owing to the afflictions of his mind caused by repentance. स्तुत्यन्तेऽसौ व्यरचयदिव च्छत्रमुच्चैः फणालिं भर्तुर्भक्त्या दधदधिशिरः स्वां वितत्य प्रमोदात् । व्यात्तैर्वक्त्रैर्भुवमिति मुनिं वक्तुकामस्तदानीं कच्चित्सौम्य ! व्यवसितमिदं बन्धुकृत्यं त्वया मे ॥ ५८ ॥ " अन्वयः- ' सौम्य ! कचित् इदं मे बन्धुकृत्यं त्वया व्यवसितं ' इति व्यात्तैः चक्त्रैः तदानीं मुनिं ध्रुवं वक्तुकामः असौ स्तुत्यन्ते भक्त्या स्वां फणालि उच्चैः वितत्य प्रमोदात् भर्तुः अधिशिरः दधत् छत्रं इव व्यरचयत् । स्तुत्यन्ते इत्यादि । सौम्य बुध अनुय वा । बुधेत्यनेन भगवतः केवलज्ञानित्वं ध्वन्यतेऽनुग्रेत्यनेन च प्रणष्टकषायचऋत्वं च । ' बुधे सौम्योऽथ वाच्यवत् । बौद्धे मनोरमेऽनुग्रे पामरे सोमदैवते ' इति विश्वलोचने । कच्चित् कामप्रवेदने । इदं प्रणयमधुरां दृष्टिं देहीत्यादिनोक्तं मे मम बन्धुकृत्यं बन्धुकार्यम् । भगवद्भक्तिबद्ध - चे तस्कत्वाद्धरणेन्द्रस्य भगवद्वन्धुत्वम् । स्वजनकार्यमित्यर्थः । ' सगोत्रबान्धवज्ञातिबन्धु 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy