SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ४०४ [पार्धाभ्युदये यते प्रत्यभिज्ञायतेऽनेनेति अभिज्ञानम् । तेन सहितं यथा स्यात्तथा। योगपद्ये हसः । सहशब्दो योगपद्यसम्पत्साकल्यान्तोक्तिषु वर्तते । ' हेऽकाले ' इति सहस्य सः । 'झिः सुब्' इति हसः । प्रहितवचनैः प्रेषितवाचिकैः । प्रहितानि प्रेषितानि च तानि वचनानि वाचिकानि प्रहितवचनानि । तैः । अलं पर्याप्तम् । 'प्रकृत्यादिभ्यः ' इति निषेधवचनालंशब्दप्रयोगानिषिध्यमानाद्भा। अनादिचारित्रमोहोदयजनितान्तरङ्गबहिरङ्ग चेष्टितरूपाण्यङ्गनाङ्गसङ्गक्रीडितानि तदभिलाषवृद्धिकारीणि च तद्विषयकाणि वचनानि त्वद्भक्त्या निखिलसुखान्यधिजिगमिषुरहं परित्यज्य भवच्चरणकमलापचितिदत्तचित्तो बुभूषामीति भावः । Therefore oh Lord ! may this devotion to your feet, bestowing. excellent prosperity, bring me all pleasures in this life and even in the life to come next. Enough of the unions with my beloved and of words, oven, sent along with a means of recognition, referring to those [ unions ], intensifing my eagerness [ for those unions ] owing to. the sin [ committed by me in my former births ]. भूयो याचे सुरनुत मुने त्वामुपारूढभक्तौ दैत्ये चाऽस्मिन्प्रणयमधुरां देहि दृष्टिं प्रसीद । चित्तोद्वेगैरनुशयकृतश्चास्य गात्रात्प्रपित्सु प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेदम् ॥ ५७ ॥ अन्वयः-- भो सुरनुत मुने त्वां भूयः याचे प्रसीद, अस्मिन् च उपारूढभक्तौ दैत्ये प्रणयमधुरा दृष्टिं देहि; अनुशयकृतैः चित्तोद्वेगैः प्रातःकुन्दप्रसवशिथिलं इदं गात्रात् प्रपित्सु जीवितं धारय । भूय इत्यादि । भो सुरनुत मुने हे वन्दारुनिर्जरप्रणुतचरणकमल साधों त्वां भवन्तं भूयः पुनः याचे प्रार्थये प्रसीद प्रसन्नो भव । अस्मिन् च एतस्मिन् शम्बरासुराभिधाने कमठचरे च उपारूढभक्तौ विवृद्धसेवाभावे। उपारूढा वृद्धि प्राप्ता भक्तिः सेवाभावः यस्मिन् सः । तस्मिन् । दैत्ये असुरे प्रणयमधुरां अनुकम्पामधुस्राविणीं । प्रणयसुभगामित्यर्थः । दृष्टिं देहि दर्शन देयाः। तस्मिन् सानुकम्पां दृष्टिं निक्षिप्याः इत्यर्थः । अनुशयकृतैः पश्चात्तापविहितैः । अनुशयेन पश्चात्तापेन कृताः विहिताः अनुशयकृताः। तैः। 'दीर्घद्वेषानुतापानुबन्धेष्वनुशयः पुमान्' इति विश्वलोचने। चित्तोद्वैगैः स्वकृतापराधस्मृतिजनितैर्मानसर्भथैः । चित्तस्य मनसः उद्वेगा उद्वेजनानि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy