SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] ४०३ अद्रेः कैलासाद्रेः निवृत्तः प्रत्यागतः सा धरणेन्द्रपदप्रदायिनी एषा भक्तिः त्वयि भवति सेवां भक्तिं विदधतः कुर्वतः मे मम धरणेन्द्रस्य श्रेयसे कल्याणाय स्यादिति शेषः । विदधति विदधते चेति बहुवचनतिप्रत्ययान्तपदद्वयस्वैकवचनसुबन्तकर्तृपदेऽ. भ्ययासम्भवदर्शनात् 'विदधतः ' इति कृदन्तं पाठमुररीकृत्य व्याख्यानं कृतम् । That this devotion to you, through the magnanimity of which I along with my beloved, secured this dignity which is very difficult to attain, and on account of wbich I, with a desire to worship with devoa tion, giving up rambling excursion, returned from that mountain having an excavated temple dedicated to Vrsabha Jina possessing three eyes ( in the form of right belief, right knowledge and right conduct ], is for the welfare of me, performing your worship. तन्मे देव श्रियमुपरिमां तन्वतीयं त्वदन्यो भक्तिर्भूयानिखिलसुखदा जन्मनीहाऽप्यमुत्र । कान्तासङ्गैरलमघवशागृधनुतां वर्धयद्भिः साभिज्ञानं प्रहितवचनैस्तत्र युक्तैर्ममाऽपि ॥ ५६ ॥ अन्वयः-- तत् देव ! उपरिमां श्रियं तन्वती इयं त्वदयोः भक्तिः इह जन्मनि अमुत्र अपि मे निखिलसुखदा भूयात् । कान्तासङ्गैः तत्र युक्तैः अपि अघवशात् मम गृध्नुतां वर्धयद्भिः साभिज्ञानं प्रहितवचनैः अपम् ।। तदित्यादि । तत् तस्मात् कारणात् देव भगवन् उपरिमां उपरितनी । उत्तमामित्यर्थः । धियं सम्पदं तन्वती तन्वाना । ददानेत्यर्थः । इयं एषा त्वद ङ्घयोः भवच्चरणकमलयोः । तव अछी चरणौ त्वदछी । तयोः ।' अछिः पुस्येव चरणे मूलेऽपि च महीरहे' इति विश्वलोचने । भक्तिः सेवा इह अस्मिात् जन्मनि भवे अमुत्र अपि परलोके अपि में मम निखिलसुखदा सर्वप्रकारकसुख दायिनी भूयात् भवत्वित्यहं पार्थये । कान्तासङ्गैः कामिनीसंसर्गः तत्र कामिनीसंसर्गविषये युक्तः अपि सम्बद्धैश्च । कामिनीसंसर्गविषयसम्बद्धरित्यर्थः । अघवशान चारित्रमोहनीयाख्यपापकर्मोदयाद्धेतोः मम मामकीनां गृध्नुतां अभिलाषुकतां । कान्तासङ्गविषये लुब्धतामित्यर्थः । 'गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ' इत्यमरः । 'त्रस्गृध्धृषक्षिपः क्नुः' इति क्नुत्थः। गृध्नोः भावः गृध्नुता । ताम् । वर्धयद्भिः वृद्धि प्रापयाद्भिः। साभिज्ञानं प्रत्यभिज्ञानसाधनसहितं । अभिज्ञा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy