________________
[ पार्श्वाभ्युदये
The king of serpents began to pray succintly- Oh Lord! devotion to you, though insignificant, produces bliss in abundance. So, having conciliated this, the female serpent, the female friend of mine, favourable to me [ i. e. not going against me ], distressed at the time when we deserted you first [ or when we got separated from you first ], we, desirous of attaining bliss, have come here.
४०२
सैषा सेवां त्वयि विदधतः श्रेयसे मे दुरापं यन्माहात्म्यात्पदमधिगतं कान्तयाऽमा मयेदम् । यस्माच्चैनं तदनुचरणेनाऽहमुज्झन्विहारं तस्मादद्वेस्त्रिनयवृषोत्स्वातकूटानिवृत्तः ॥ ५५ ॥
अन्वयः—— यन्माहात्म्यात् मया कान्तया अमा इदं दुरापं पदं अधिगतं, यस्मात् च तदनुचरणेन अहं विहारं उज्झन् त्रिनयन वृषोत्खातकूटात्तस्मात् अद्रेः निवृत्तः, सा एषा त्वयि सेवां विदधतः मे श्रेयसे ।
,
सैषेत्यादि । यन्माहात्म्यात् यस्याः भक्तेः प्रभावात् । यस्याः माहात्म्यं यन्माहात्म्यम् । तस्मात् । मया नागराजेन । कान्तया पल्या भोगिन्या अमा सह । ' अमा सह समीपे च ' इत्यमरः । इदं एतत् दुरापं दुर्लभं । दुःखेन कृच्छ्रेण आप्यते इति दुरापम् । ' स्वीषसि कृच्छ्राकृच्छ्रे खः इति खः । पदं नागेन्द्रपदम् । ' पदं वाक्ये प्रतिष्ठायां व्यवसायापदेशयोः । पादातचिह्नयोश्शब्दे स्थानत्राणाङ्घ्रिवस्तुषु || ' इति विश्वलोचने । अधिगतं प्राप्तम् । यस्मात् च यन्माहात्म्याच्च तदनुचरणेन भक्त्यनुकूलाचरणेन हेतुना । भक्त्यनुकूलमाचरितु मित्यर्थः । अहं नागराजः विहारं लीलार्थकं भ्रमणं उज्झन् परिहरन् त्रिनयनवृषोत्खातकूटात् रत्नत्रयात्मक वृषभजिनमन्दिरयुक्तशिखरात् । त्रीणि नयनानि सम्यग्दर्शनज्ञानचारित्रलक्षणानि यस्य स त्रिनयनः । वृषो वृषभोऽस्याऽस्तीति वृषः । वृषभलाञ्छनः आदिजिनेंद्र इत्यर्थः । ओऽभ्रादिभ्यः इत्यः | त्रिनयनचासौ वृषश्च त्रिनयनवृषः । यद्वा त्रीणि सम्यग्दर्शनादित्रयरूपाणि नयनानि त्रिनयम् । तदेव वृषः आत्मधर्मः यस्य स त्रिनयनवृषः । ' वृषो मूषकधर्मयोः । वृषभे वासके श्रेष्ठे राशौ शृङ्ग्भ्यां च शुकले | शुक्रे पुरुषभेदेऽपि ' इति विश्वलोचने । कूटः शिखरमस्यास्तीति कूटम् । सशिखरं मन्दिरमित्यर्थः लक्षणयाऽत्र ग्राह्यः । उत्खातं उखात्य निर्मितम् । 'ओऽभ्रादिभ्यः ' इत्यो मत्वर्थीयः । त्रिनयनवृषायोत्खातं कूटं सशिखरं मन्दिरं यत्र सः । तस्मात् । तस्मात्
८
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org