________________
चतुर्थः सर्गः]
४०१
devotion [ devoutly 1, a low obeisance to the two feet of the Lord. They [ people ] speak of affections to be deteriorating during the period of seperation; [ but it is ] inexplicable. Those [ affections ], however, owing to non-enjoyment, having longing heightened [ intensified ] in respect of objects desired for [ of beloved objects ] get turned into heaps of affection [ i. e. become intensified ].
सक्षेपाच्च स्तुतिमुरगराट् कर्तुमारब्ध भर्तुः
श्रेयस्सूते भवति भगवन्भक्तिरल्पाप्यनल्पम् । श्रेयस्कामा वयमत इतो भोगिनी नोऽनुकूला
मावास्यनां प्रथमविरहे शोकदष्टां सखी ते ॥५४॥ अन्वयः- उरगराट् सङ्क्षपात् भर्तुः स्तुतिं च कर्तुं आरब्ध - ' भगवन् भवति अस्पा अपि भक्तिः अनल्पं श्रेयः सूते । अतः प्रथमविरहे शोकदष्टां नः अनुकूलां एनां सखी भोगिनी आश्वास्य ते वयं श्रेयस्कामाः [सन्तः] इतः [प्राप्ताः ।।
___ सङ्क्षपादित्यादि । उरगराट् नागराजः । राजते इति राट् । किप् । सक्षेपात समासेन भर्तुः भगवतः श्रीपार्श्वजिनेन्द्रस्य स्तुतिं च स्तवं च कर्त विधातुं आरब्ध आरेभे । लुङि रूपम् । भगवन् भो स्वामिन् भवति त्वयि अल्पा अपि स्तोकाऽपि भक्तिः भजनं । सेवेत्यर्थः । 'भाक्तिर्विभागे सेवायाम् । इति विश्वलोचने । अनल्पं विपुलं श्रेयः मङ्गलं पुण्यं वा । 'श्रेयस्तु मङ्गले धर्मे' इति विश्वलोचने । सूते जनयति । अतः एतस्मात्कारणात् । प्रथमविरहे प्राथमिक विरहे । शोकदष्टां शोकेनात्यन्तं पीडिताम् । शोकेन दुःखेन दष्टा अत्यन्तं पीडिता शोकदष्टा । ताम् । प्राक्तने भवे पञ्चामितपः समाचरता कमठचरेण तापसेनामिसन्धुक्षणे क्रियमाणे काष्ठान्तर्गतस्वशरीराणामस्माकं देहेषु दग्धेषु पञ्चत्वं प्राप्तानां भवतस्तदा प्रथमो विरहो जातः । तस्मिन्काले शोकाक्रान्ताम् । नः अस्माकं अनुकूला अनुरूपां एना एतां सखीं ममाली भोगिनी भोगवती पत्नी आश्वास्य शान्तयित्वा ते भस्मीभूतशरीराः वयं त्वद्भक्तिभाजः श्रेयस्कामाः श्रेयोभिलाषिणः सन्तः । श्रेयसे कामः इच्छा येषां येषु वा ते । इतः अत्र भवचरणयोस्समीपं प्राप्ताः । प्राक्तनभवे भवचरणसामीप्यमात्रेण देवभूयं गतत्वादस्माभिः 'भवत्यल्पापि भक्तिरनस्पं श्रेयः सूते' इति विज्ञायातोऽप्यधिकतरं श्रेयोऽस्माकं भूयादिति मनसि विधाय भक्तिनम्राः वयं भवचरणयुगलं पूजयितुकामाः अत्र प्राप्ताः स्मः इत्यभिप्रायोऽसुरस्य ।
पार्श्वभ्युदये...२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org