________________
४००
[पार्धाभ्युदये
युगले स्नेहनिघ्नः भक्त्या प्राणमत् । [ यत् ] विरहे स्नेहान हासिनः आहुः [ तत् ] किमपि । ते अभोगात् इष्टे वस्तुनि उपचितरसा [ सन्तः ] प्रेमराशीभवन्ति ।
धिक्कृत्येत्यादि । अथ अनन्तरं । 'अथाऽथो च शुभे प्रश्ने साकल्यारम्भसंशये । अनन्तरेपि' इति विश्वलोचने । एनं शम्बरासुरं तं पूर्वभववैरिणं मुहुः असकृत् । 'मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः' इत्यमरः । धिक्कृत्य सधिक्कारं निर्भ
ये । 'साक्षादाद्यवि' इति साक्षादादिगणान्तर्गतत्वा कृषि तिसज्ञा। सजकृत्य सहायीकृत्य । सहकृत्वेत्यर्थः। 'विडाजूांद्यनुकरणं' इत्यूर्यादिगणत्वात्सतरित्यस्य सहार्थस्य तिसज्ञा। ' इसुसोर्बहुलम्' इति सखे सजकृत्येतिरूपं तदभावे च सजू:कृत्येति । द्वावपि पाठौ समीचीनौ । तेन सहेत्यर्थः । सः धरणेन्द्राख्यः अहिराजः उरगराट् । 'राजाहःसखेष्टः ।' इति सान्तष्टः। भर्तुः भगवतः पार्श्वजिनेन्द्रस्य चरणयुगले पादद्वये। पादयोरित्यर्थः। स्नेहनिघ्नः प्रणयाधीनः। स्नेहे निघ्नः स्नेहनिघ्नः । प्रणयाधीन इत्यर्थः । निघ्नः आयत्तः। 'अधीनो निधन आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ' इत्यमरः । निहन्यते निघ्नः । 'स्थादिभ्यः कः' इति कः । प्राणमत् प्रणमति स्म । अत्र स्नेहनिघ्नः इत्यनेन नागेन्द्रतदिन्द्राण्योः सर्पयुगलचरयोः मरुभूतिचरेण भगवता पार्श्वजिनेन्द्रेण कृत उपकारः ध्वन्यते। यत् विरहे विप्रयोगकाले स्नेहान् प्रणयान् हासिनः हसनशीलान् । हसनस्वभावानित्यर्थः । 'शीलेऽजातौ णिन्' इति शीले णिन् । आहुः ब्रुवन्ति तत् किमपि अवचनाईम् । वक्तुमयोग्यमित्यर्थः । यतः ते अपि स्नेहाः अपि अभोगात् भोगाभावात् । प्रसज्यप्रतिषेधेऽत्र न । अभुक्तत्वादित्यर्थः । इष्टे अभिलषिते वस्तुनि विषये उपचितरसाः सन्तः प्रचितानुरागाः। प्रवृद्धतृष्णा इत्यर्थः। उपचित प्रचितः प्रवृद्धः रसः रागः येषां येषु वा ते उपचितरसाः। 'रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ ॥ रसो घृतादावाहारपरिणामोद्भवेऽपि च' इति विश्वलोचने। प्रेमराशीभवन्ति गाढस्नेहत्वमाप्नुवन्ति । नात्र स्नेहप्रेम्णोरवस्थाभेदादन्योन्य भिन्नत्वमपि त्वनान्तरत्वमेव, उभयोरपि देवतारतिभावार्थपरत्वात् । प्रेमराशीभवन्तीति पदेन स्नेहस्य गाढत्वमानं व्यज्यते । प्रागप्रेमराशयः इदानीं भगवद्भोगीन्द्रयुगलयोर्विप्रयोगकालानन्तरमस्मिन्साक्षाद्दर्शनकाले प्रेमराशयः सम्पद्यमानाः भवन्ति । 'कृम्वस्तियोगेऽतत्तत्वे सम्पत्तरि विः' इति विः।
Afterwards, that king of serpents, absorbed in devotion [ to Him or absorbed in affection for Him ], having rebuked this [ demon ] again and again [ and ] taking him along with himself, made, with
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org