SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः] ३९९ विचारात्यर्थः । अवधीः अहन्। मौढ्यात् अज्ञानात् अनुचितं औचित्यविकलम् । अयुक्तमित्यर्थः । 'उचितं तु समञ्जसे । अनुमत्यां मिताऽभ्यस्तज्ञातेषु त्रिषु च त्रिषु' इति विश्वलोचने ।। ते तव तत् वसुन्धराभिलाषरूपम् । कृतं कर्म | कृत्यमित्यर्थः । 'नभावे क्तोऽभ्यादिभ्यः' इति क्तः । त्वया अपि भवता अपि न मर्षितं न सोढम् । एतस्मादभिज्ञानदानात् असितनयने मयि रक्तनयने मयि नागराजे । न सिंत शुभ्रं असितं। पर्युदासेन सितेतरदित्यर्थः । नयनयोर्नागराजावयवभूतत्वाल्लक्षणयाऽसितशब्देन रक्तवर्णोऽत्र ग्राह्यः । तेन असिते रक्ते नयने यस्य सोऽसितनयनः। तस्मिन् । कौलीनात् परीवादात् लोकवादाद्वा । ' कोलीनं तु परीवादे कुलीनत्वे कुकर्मणि । गुह्येपि सङ्गरेऽपि श्वभुजङ्गपशुपक्षिणाम् । ' इति विश्वलोचने। लोकवादेनात्रापवादार्थों ग्राह्यः । अविश्वासनी विश्वासशून्यः । ' करणाधारे चानट् ' इति नब्भावे विधीयमानेनानट्प्रत्ययेन विश्वासनमिति शब्दः सिद्धः । न विश्वासनमविश्वासनम् । अनटष्टित्वान्नात्र स्त्रियां ङी, अपि तु 'अतोऽनेकाचः' इति मत्वर्थे इन् । अविश्वासनमस्त्यस्येत्यविश्वासनी। मा भूः मा स्म भवः । माङा युक्तत्वादडागमप्रतिषेधः। अविश्वासनी भूः इत्यस्य व्यन्तत्वेऽपि न काऽपि क्षतिः । प्राक् अनविश्वासन इदानीमविश्वासनो मा भः । अत्राप्यडागमः प्रतिषिद्ध एव । तथापि पूर्वोक्तव रूपसिद्धिस्समीचीना, द्वितीये व्याख्याने प्राक्तनीयविश्वासनस्याशक्यसमर्थनत्वात् । रक्ताक्षा उरगा न विश्वासनााँ इति लोकापवादमात्रेण न त्वया मयि विश्वासस्त्याज्य इति भावः। In the former birth you were a dear brother of whole blood of this Lord. In that birth you, wishing to have [ sexual intercourse with ] his wife [ and so ] wishing to have enmity with him, killed this porforce. That wicked deed of yours, perpetrated through foolishness, was not put up with by you even. On the strength of malicious gossip, do not be distrustful towards me, having [ my ] eyes red. धिक्कृत्यैनं मुहुरथ सजूकृत्य तं सोऽहिराजो भक्त्या भर्तुश्चरणयुगले प्राणमत्स्नेहनिघ्नः। स्नेहानाहुः किमपि विरहे हासिनस्तेऽप्यभोगा- . दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ५३ ॥ अन्वयः- अथ एनं तं मुहुः धिक्कृत्य सजूकृत्य सः अहिराजः भर्तुः चरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy