SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ३९८ [ पार्श्वाभ्युदये अस्मात् अभिज्ञानदानात् प्रत्यभिज्ञानसाधनभूतवृत्तान्तप्रतिपादनात् । अभिज्ञायतेऽ 'नेनेति अभिज्ञानं । ' करणाधारे चानट्' इति करणेऽनट् । तस्य दानं प्रतिपादनम् । तस्मात् । हेत्वर्थे का | मां नागराजं कुशलिनं क्षेमंकरं विदित्वा ज्ञात्वा भो भवान् हे शम्बरासुर त्वं माऽपयासीत् मा पलायस्व । भवच्छब्दयोगादुत्तमपुरुषप्रत्ययान्तः प्रयोगः । माङा युक्तत्वादडागमप्रतिषेधः । इति एवं अभिज्ञानदानवचनेन धरणपतिना धरणेन्द्रेण रुद्धः च पलायनान्निवारितश्च । This demon, on seeing the lord of serpents with bis beloved, stan ding in the vicinity of Lord Jina with best material for worshipping, began to withdraw through fear and was prohibited [ from withdrawing ] by the lord Dharana, thus — knowing me to be one doing good [or to be a virtuous man or to be a gentleman ] from this evidence [ i. e. the information given in next staza ] in proof [ of my being a virtuous man ], oh gentleman, you need not withdraw [ or .you should not withdraw ]. देवस्याऽस्य प्रिय सहजकः पूर्वजन्मन्यभ्रस्त्वं स्त्रीकाम्यंस्तं प्रसभमवधीर्वैरकाम्यंस्तदैनम् । तत्ते मौढ्यात्कृतमनुचितं मर्षितं न त्वयाऽपि मा कौलीनादसितनयने मय्याविश्वासनी भूः ॥ ५२ ॥ अन्वयः - पूर्वजन्मनि त्वं अस्य देवस्य प्रियसहजकः अभूः । तदा स्त्रीकाम्यन् वैरकाम्यन् [ त्वं ] एनं तं प्रसभं अवधीः । मौढ्यात् अनुचितं ते तत् कृतं त्वया अपि न मर्षितम् | [ अतः ] असितनयने मयि कौलीनात् अविश्वासनी मा भूः । देवस्येत्यादि । पूर्वजन्मनि प्राक्तनभवे त्वं भवान् अस्य देवस्य अस्य भगवतो मरुभूतिचरस्य पार्श्वजिनेन्द्रस्य प्रियसहजकः प्रियसोदर्यः । सह जातः सहजः । स्वार्थे कप्रत्ययः । प्रियश्चासौ सहजकश्च प्रियसहजकः । अभूः बभूविथ | तदा तस्मिन्भवे स्त्रीकाम्यन् मरुभूतिपत्नीं वसुन्धरा जिगमिषुः । स्त्रियं मरुभूतेः पत्नीमात्मनः इच्छतीति स्त्रीकाम्यन् । " स्वेपः काम्यः ,, इत्यात्मनः इच्छायां काम्यः । वैरकाम्यन् वैरायितुमिच्छन् । वैरं मरुभूतावात्मनः इच्छतीति वैरकाम्यन् । यथापूर्वं काम्यः । त्वं एनं पार्श्वजिनेन्द्रं तं मरुभूतिचरं प्रसभं हठात् । युक्तायुक्तम 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy