SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ चथर्तुः सर्गः] लोचने । कामपि कामिनीविशेषं रमयन् सुखयन् त्वं भवान् मया भवत्कान्तया स्वप्ने दृष्टः अवलोकितः असि भवसि इति एवं त्वया भवत्या सान्तस्सं समन्दहासम् । मन्दं हसित्वेत्यर्थः। अन्तर्हासेन मन्दहासेन सहितं यथा स्यात्तथा । कथितम् प्रतिपादितम् । At the time when the celestial air of this [lord of serpents ], having celestial cars scattered on all sides, had drum beaten in it, some follower of bim looked at his own beloved wife with a smile and said. again-" Oh fortunate one ! just recently, you, clinging to my neck, having fallen asleep on the bed, awoke crying loudly for some reason or other; you remembered the incident which had taken place in the dream; and again I thought that you, desirous of taunting me, showing yourself as if angry with me a little, concealed it from me; it was told by you, laughing inwardly, to me asking you again and again- Ob you, inflamed with love feelings ! you were beheld by me in a dream. pleasing some [ woman ]." दृष्ट्वाऽहीन्द्रं स्थितमधिजिनं सत्सपर्य सजानि प्रारभेऽसौ सभयमसुरो मुक्तशैलोऽपयातुम् । रुद्धश्चैवं धरणपतिना भो भवान्माऽपयासी देतस्मान्मां कुशलिनमभिशानदानाद्विदित्वा ॥५१॥ अन्वयः - सत्सपर्य सजानि अहीन्द्र अधिजिनं स्थितं दृष्टा मुक्तशैलः असुरःसभयं अपथातुं प्रारेभे; एतस्मात् अभिज्ञानदानात् मां कुशलिनं विदित्वा भो भवान्, मा अपयासीत् [इति ] एवं धरणपतिना रुद्धः च । दृष्टेत्यादि । सत्सपर्य समीचीनपूजनद्रव्यम् । अक्षतादिद्रव्याणामपि पूजनार्थत्वात्सपर्यात्वेनाभिधानम् । सती समीचीना सपर्याऽपचितिः यस्य सः। तम् । अक्षतकुसुमादिसमीचीनपूजाद्रव्यहस्तमित्यर्थः । ' पूजा नमस्थाऽपचितिः सपर्याऽर्चाऽ हणाः समाः ' इत्यमरः। सजानि सभार्यम् । जायया पन्या सहितः सजानिः । 'जायाया निङ्' इति जायाशब्दस्य निङ् । अहीन्द्रं नागेन्द्रम् । अधिजिनं स्थित जिनेन्द्राभिमुखीभूय स्थितं दृष्ट्वा विलोक्य मुक्तशैलः परित्यक्तभूधरः असुरः शम्बराभिधानो दैत्यः । सभयं भीत्या । भयेन सहितं यथा स्यात्तथा । अपयातुं अपगन्तुं । · फ्लायितुमित्यर्थः । प्रारेभे आरभते स्म । एतस्मात् अनन्तरोत्तरश्लोके निरूप्यमाणात् Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy