________________
३९६
[ पार्धाभ्युदये सान्तसिं कथितमसकृत्पृच्छतोऽसि त्वया मे
दृष्टः स्वमे कितव रमयन्कामपि त्वं मयेति ॥ ५० ॥ अन्वयः- दिव्ययानावकीर्णे अस्य प्रस्थाने प्रहतपटहे [ सति ] कश्चित् तदनुगजनः कान्तां सस्मितं वीक्षते स्म, भूयः च आह- "सुभगे ! त्वं पुरा शयने मे कण्ठलग्ना निद्रां गत्वा किमपि सस्वरं रुदती विप्रबुद्धा असि; यत् वृत्तं तत् स्मरसि; मां उपालब्धुकामा तु मे ईषत् कुपितं इव दर्शयन्ती प्रपासि [ इति मन्ये; असकृत् पृच्छतः मे हे कितव कामपि रमयन् त्वं मया स्वप्ने दृष्टः असि' इति त्वया सान्तहोस कथितम् ।”
प्रस्थान इत्यादि युग्मम् । दिव्ययानावकीर्णे स्वर्विमानैः समन्तात्कीर्णे । दिवि भवानि दिव्यानि । यानानि वाहनानि । दिव्यानि च तानि यानानि दिव्ययानानि । तैः अव समन्तात् कीर्ण वेष्टितं दिव्ययानावकीर्णम् । तस्मिन् । अस्य धरणेन्द्रस्य प्रस्थाने प्रस्थानसाधनीभूते वाहने । प्रस्थीयतेऽनेनेति प्रस्थानम् । ' करणाधारे चानट' इति करणेऽनट् । प्रहतपटहे सति प्रताडितान के सति । प्रहताः प्रताडिताः पटहा आनका यस्मिस्तत् । तस्मिन् । 'आनकः पटहोऽस्त्री स्यात् ' इत्यमरः । कश्चित् कश्चन तदनुगजनः धरणेन्द्रसेवकः । अनुगच्छतीत्यनुगः । भृत्यः इत्यर्थः । 'भृत्योऽथ भृतकः पत्तिः पदातिः पदगोऽनुगः' इति धनञ्जयः । कान्तां स्वकामिनी सस्मितं हासपूर्वकं । स्मितं कृत्वेत्यर्थः । स्मितेन सहितं यथा स्यात्तथा। वीक्षते स्म विलोकयामास । भूयश्च पुनश्च आह ब्रूते हे सुभगे कस्याणि ! त्वं भवती पुरा निकटातीते काले । 'पुरा भाविपुराणयोः । प्रबन्धे निकटेऽतीते' इति विश्वलोचने । शयने शयनीये मे मम कण्ठलना आश्लिष्टकण्ठा । कण्ठे लग्ना कण्ठलग्ना । निद्रां गत्वा निद्रां प्राप्य किमपि केनापि निमित्तेन सस्वरं सशब्दं । उच्चैरित्यर्थः । रुदती विलपन्ती। रोदनं कुर्वन्तीत्यर्थः । विप्रबुद्धा उन्निद्रा असि भवसि । ' लट्' इति पुराशब्दे वाचि भूतेऽनद्यतनेऽर्थे लट् । यत् वृत्तं स्वप्ने यदुपस्थितं तत् स्मरसि तत्त्वमस्मरः । पूर्ववलट् । मा त्वत्प्रियकरं मां उपालन्धुकामा अधिक्षेप्तुकामा । उपालब्धुं अधिक्षेप्तुं कामः इच्छा यस्याः सा । 'सन्तुमोर्मनःकामे' इति तुमः खम् । तु पुनः मे मम ईषत् स्वल्पं कुपितमिव कोपमिव । 'नब्भावे क्तोऽभ्यादिभ्यः' इति क्तः । दर्शयन्ती प्रकाशयन्ती। प्रपासि प्रापाः। पूर्ववदत्रापि लट् । इति मन्ये अमन्ये । अत्रापि तथैव लट् । असकृत् अनेकवारं पृच्छतः याचमानस्य मे मम हे कितव उन्मत्त वञ्चक वा । ' कितवः पुंसि धत्तुरे मत्तवञ्चकयोरपि ' इति विश्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org