________________
चतुर्थः सर्गः ]
३९५
८
आकम्पः वेपथुः यस्य तज्जाताकम्पम् । जाताकम्पं च तदासनं विष्टरश्च जाता कम्पासनम् । तेन नियमितः प्रयोजितः प्रचोदितः जाता कम्पासननियमितः । सावधिः अवधिज्ञानसहितः । अवध्या सहितः सावधिः । उपयुक्तावधिज्ञानः इत्यर्थः । नागराजः धरणाख्य उरगराट् । नागानामुरगाणां राजा नागराजः । राजाहःसखेष्टः ' इति सान्तष्टः । कान्तां स्वकामिनीं भोगिनीं आह स्म अब्रवीत् । आसनप्रक्रम्पनेनोपयुक्तस्वीयावधिज्ञानेन भगवतः केवलज्ञानसम्पदमाविर्भूतां विज्ञाय भोगिनीं स्वकामिनीमाद्देति भावः । अद्य इदानीं गत्वा यात्वा प्रथमं आदौ अधिपं भगवन्तं पार्श्वजिनेन्द्रम् । भोगिनो भोगिन्याश्च प्राक्तनजन्मनि मरणकाले पञ्चनमस्कारमन्त्रं श्रावयित्वा भगवांस्तयोरुभयोर्हितं कृतवानिति भगवतस्तयो - राधिपत्यमिति भावः । भगवत्कृतमुपकारं संस्मृत्य नागराजो भगवन्तमधिपत्वेन निर्दिष्टवान् । पूजयावः तदपचितिं करिष्यावः । वर्तमानसमीपत्वाद्भविष्यार्थे वर्तमानवत्प्रयोगः । पश्चात् अनन्तरं परिणतशरच्चन्द्रिकासु प्रचितशारदीयकौमुदीषु । परिणताः प्रचिताः शरच्चन्द्रिकाः शारदीयकौमुद्यः यासु ताः । तासु । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । क्षपासु रात्रिषु । ' निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ' इत्यमरः । विरहगुणितं विरहेण बहुलीकृतं तं तमेव सर्वमेव अभिलाषं इच्छां आवां त्वं चाहंच निर्वेक्ष्यावः भोक्ष्यावहे । अनुभवगोचरतां नेष्याव इत्यर्थः । विशतेर्लट् । 'निर्वेशो वेतने भोगे निर्देशो मूर्च्छनेऽपि च ' इति विश्वलोचने ।
The lord of serpents, directed by the shaking seat, making use of [his] Avadhi [ a kind of knowledge ] said to his beloved wifeHaving gone to-day we shall first of all, worship the Lord, [ and ] then, during the night having the mature autumnal moon-light, we, both of us, shall enjoy those very various desires [ of ours ] multiplied by the feelings of love springing up in our minds on account of our lonliness.
6
प्रस्थानेऽस्य प्रहतपटहे दिव्ययानावकीर्णे
कश्चित्कान्तां तदनुगजनः सस्मितं वीक्षते स्म । भूयश्चाह त्वमसि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा ॥ ४९ ॥ यत्तद्वत्तं स्मरसि सुभगे मामुपालब्धुकामा मन्ये त्वत्कुपितमिव मे दर्शयन्ती प्रपासि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org