________________
३९४
[ पार्श्वाभ्युदये
>
"
,
कालत्वेऽपि तत्र धरणाख्यभुजगेन्द्रविरचितमण्डलाकारशरीरशयनादूर्ध्वदेशे उत्थितं भगवन्तं दृष्ट्वा 'अयं शाङ्गपाणिरेव शयनादुत्थितः अतोऽयं कार्तिकमास एव इति भ्रान्त्या कार्तिकमासत्वमध्यास्य शरत् ' मा त्वमत्र दृष्टिक्षेपं कुरु; लोचनेऽन्यान् कार्तिकमासाद्भिन्नान्मासान् प्रापय ' इत्युष्णकालमुवाचेत्यब्रवीदितिभावः । पक्षे समाकृष्येत्यर्थः । लोचने नयने । पक्षे मयूखान् । लोचने इव लोचने । ' देवपथादिभ्यः इतवार्थस्य कस्योस् ।' युक्तवदुखि लिङ्गसख्ये ' इति द्विवचनत्वं नपुंसकलिङ्गत्वं च । प्रकाशनक्रियासाधर्म्या लोचनमयूखानामन्योन्यसमानत्वम् | अन्यान् चैत्रमासेऽ ध्यस्तात्कार्तिकमासाद्भिन्नान् मासान् गमय प्रापय इति एवं उष्णकालं ऊष्मागमकालम् । उष्णः उष्णगोः सूर्यस्य कालः आतपसमयः उष्णकालः । यद्वा उष्णः सूर्यातपः भूम्नाऽस्त्यस्येति उष्णः । ' ओऽभ्रादिभ्यः ' इति भूमार्थे मत्वर्थीयोऽत्यः । स चासौ कालश्वोष्णकालः । खरकरप्रकरव्यातिकालः इत्यर्थः । अनेनोत्तरायण कालः संसूच्यते । तदुक्तम् -' मानोर्मकरसङ्क्रान्तेः षण्मासा उत्तरायणं । कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम् || ' इति । स्फुटं व्यक्तं रुन्धतीव प्रतिबन्धं कुर्वाणेव शरद् ऋतुविशेषः प्रादुरासीत् आविरभूत् । प्रकटतामयादित्यर्थः ।
The autumnal season, spreading [ diffusing ] in all directions [her ] laughter in the form of moon-light to deride, as it were, the unwise course of this demon's conduct resulting in misery, [ season ] preventing openly as if the advent of the summer-season through the clearness of all quarters, with the words • Oh! [ you ] who are clever or agreeable, with both of your eyes shut [with your hot rays contracted], remove them [ your glances ] to other months, appeared [ set in ] .
जाताकम्पासननियमितः सावधिर्नागराजः
कान्तां स्माऽऽह प्रथममधिपं पूजयावोऽद्य गत्वा ।
पश्चादावां विरहगुणितं तं तमेवाभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४८ ॥
अन्वयः - जाता कम्पासन नियमितः सावधिः नागराजः कान्तां आह स्म
( अद्य गत्वा प्रथमं अधिपं पूजयावः, पश्चात् परिणतशरच्चन्द्रिकासु क्षपासु विरहगुणितं तं तं एव अभिलाषं निर्वेक्ष्यावः ।
जातेत्यादि । जाताकम्पासननियमितः प्रकम्पितविष्टरप्रचोदितः । जातः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org