________________
चतुर्थः सर्गः ]
. ३९३ रनिमात्रं समुत्थिते 'भगवतः शाङ्गपाणेर्भुजगशयनात्समुत्थितत्वादयं कार्तिकमास एव ' इति भ्रान्त्या चैत्रमासं कार्तिकमासत्वेन गृहित्वा चैत्रमास एव शरत्प्रादुरभवदिति भावः । भगवतः शिरसि प्रहां यदा शम्बरासुरो धराधरमुजहार तदैव भगवति केवलज्ञानं शुद्धात्मस्वभावभूतमाविरभूदित्यवसेयम् ।
The autumnal season, desirous of speaking out loudly as if - The ban put upon my advent has come to end as Visnu [ the wielder of the Sarnga bow ] has got up from [ bis ] serpent - bed ', set in when the superhuman power in the form of pure and perfect knowledge sprang up in the sage, [ and ] when the demon, desirous of throwing on the head of this [ sage ], uplifted a mountain.
ज्योत्स्नाहासं दिशि दिशि शरत्तन्वती प्रादुरासी- दैत्यस्याऽस्य प्रहसितुमिवाज्ञानवृत्तिं दुरन्ताम् । वैमल्येन स्फुटमिति दिशां रुन्धतीवोष्णकालं
मासानन्यान्गमय चतुरो लोचने मीलयित्वा ॥४७॥
अन्वयः- अस्य दैत्यस्य दुरन्तां अज्ञानवृत्तिं प्रहसितुमिव ज्योत्स्नाहासं दिशि दिशि तन्वती दिशां वैमल्येन 'चतुरः (त्वं) मीलयित्वा लोचने अन्यान् मासान् गमय' इति उष्णकालं स्फुट रुन्धती इव शरद् प्रादुरासीत् ।
ज्योत्स्नेत्यादि । अस्य शम्बराख्यस्य कमठचरस्य दैत्यस्य दानवस्य दुरन्तां दुष्परिणामां दुष्टस्वरूपां वा। दुष्टः दुःखजनकत्वात् अन्तः परिणामः यस्याः सा। यद्वा दुष्टं अन्तं स्वरूपं यस्याः सा । ताम् । 'अन्तं विशुद्ध व्याप्ते स्यादन्तो नाशे मनोहरे । स्वरूपेऽन्तं मतं क्लीयं न स्त्री प्रान्तेऽन्तिके त्रिषु' इति विश्वलोचने । अज्ञानवृत्ति ज्ञानशून्यां क्रियाम् । न विद्यते ज्ञानं सम्यग्ज्ञानं यस्यां सा अज्ञाना। अज्ञाना चासौ वृत्तिः क्रिया वर्तनं वा चाज्ञानवृत्तिः । ताम् । मिथ्याज्ञानजनितां क्रियामित्यर्थः । प्रहसितुमिव उपहासास्पदीकर्तुमिव । उपहास्यतां गमयितुमिवेत्यर्थः । ज्योत्स्नाहासं कौमुदीहसितं । ज्योत्स्ना कौमुद्येव हासः हास्यं ज्योत्स्नाहासः । तम् । दिशि दिशि प्रतिदिशम् । सर्वासु दिक्ष्वित्यर्थः। तन्वती वितन्वाना । विस्तारं नयन्तीत्यर्थः । दिशां काष्ठानां वैमल्येन नैर्मल्येन चतुरः पटुः त्वमुष्णकालः । 'दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च' इत्यमरः । मीलयित्वा निमीस्य अन. वलोक्येत्यर्थः । अत्र कार्तिकमासेऽनाक्षिप्येति भावः । चैत्रमासस्योत्तरायणगत्वादुष्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org