________________
३९२
[ पार्धाभ्युदये
absolute ] happiness or unalloyed misery fall ? One's state goes up and down after the manner of the periphery of a wheel.
यस्मिन्काले समजनि मुनेः केवलज्ञानसम्प
द्यस्मिन्दैत्यो गिरिमुदहरन्मूर्ध्नि चिक्षेप्सुरस्य । तत्काले सा शरदुदभवद्वक्तुकामेति वोच्चैः
शापान्तो मे भुजगशयनादुस्थिते शार्ङ्गपाणौ ॥ ४६ ॥ अन्वयः-- यस्मिन् काले मुनेः केवलज्ञानसम्पत् समजनि, यस्मिन् दैत्यः अस्य मूनि चिक्षेप्सुः गिरि उदहरत् तत्काले 'शाङ्गपाणौ भुजगशयनात् उत्थिते मे शापान्तः' इति उच्चैः वक्तुकामा वा सा शरत् उदभवत् ।
यस्मिन्नित्यादि । यस्मिन् यत्र काले समये । चैत्रमासे इति भावः । मुनेः भगवतः श्रीपार्श्वनाथस्य केवलज्ञानसम्पत् केवलबोधसम्पत्तिः । ससर्वपर्यायाणि द्रव्याणि यद्बलाज्ज्ञायन्ते तज्ज्ञानं केवलमित्यभिधीयते । समजान प्रादुरभूत् । सर्वघातिकर्मक्षयादाविरभूदिति भावः । यस्मिन् यत्र काले दैत्यः शम्बरासुरः अस्य भगवतः श्रीपार्श्वजिनेन्द्रस्य मूर्ध्नि शिरसि चिक्षेप्सुः क्षेप्तुमिच्छुः। 'सन्भिक्षाशंस्विन्दिच्छादुः' इति सन्नन्तादुः। गिरिं भूधरं उदहरत् उद्धृतवान् त काले तस्मिन् काले। तदेत्यर्थः। शागपाणी विष्णौ। शृङ्गस्य विकारः शार्ङ्गम् । शृङ्गविनिर्मितं धनुरित्यर्थः । 'हेमादिभ्योऽञ्' इति विकारार्थेऽञ् । शाङ्गं पाणौ यस्य सः शाङ्गपाणिः नारायणः । 'क्ताच्चास्त्र' इति बसत्त्वादस्यास्त्रवाचिनश्शार्ङ्गशब्दस्येबन्तात्पूर्व निपातः। भुजगशयनात् उरगशय्यायाः । भुजगः उरगः शेषाख्यः एव पक्षे धरणाख्यः एव शयनं शय्या भुजगशयनम् । तस्मात् । उत्थिते सति मे मम शरदः शापान्तः प्रतिबन्धान्तः । शापस्य प्रतिषेधस्य प्रतिबन्धस्यान्तोऽवसानं शापान्तः । इति एवं उच्चै तारस्वरेण वक्तुकामा वा वक्तुमभिलषन्तीव । वक्तुं वदितुं कामः अभिलाषः यस्याः सा वक्तुकामा । वक्तुमभिलाषवतीत्यर्थः । 'सम्तुमोर्मनःकामे' इति तुमो मकारस्य खम् । वाशब्दोत्रेवार्थे । सा शरत् स शरतत्कालः उदभवत् औन्नत्यं प्रापत् प्रादुरभवद्वा । यस्मिन्काले भगवति केवलज्ञानसम्पदाविरभूत्तस्मिश्चैत्रमाससमये शरकालः प्रादूरभूत् । भगवतः पार्श्वनाथस्य शाईपाणिवन्नीलकायत्वात् । 'अयं शागपाणिरेव' इति शरदृतौ भ्रान्तिः समजायत । तस्मिंश्च भगवति मण्डलाकारविरचनजनितशयनाकाराद्धरणाख्यभुजगशरीरात्केवलज्ञानोत्पत्तौ जातायामूर्ध्वमाकाशप्रदेशेऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org