________________
चतुर्थः सर्गः]
३९१
एवंप्रायां निकृतिमसुरः स्त्रीमयीमाशु कुर्वन्
व्यर्थोद्योगः समजनि मुनौ प्रत्युताऽगात्स दुःखम् । कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा
नाचैर्गच्छत्युपारी च दशा चक्रनेमिक्रमेण ॥ ४५ ॥
अन्वयः-- असुरः मुनी एवंप्रायां स्त्रीमयीं निकृतिं कुर्वन् आशु व्यर्थोद्योगः समजनि प्रत्युत सः दुःखं अगात् । कस्य एकान्तं सुखं उपनतं एकान्ततः दुःखं वा? चक्रनेमिक्रमेण दशा नीचैः उपरि च गच्छति ।
एवंप्रायामित्यादि । असुरः दैत्यः । 'असुरः दानवे सूर्ये' इति विश्वलोचने । मुनौ मुनिविषये । मुनिं विषयीकृत्येत्यर्थः । एवंप्रायां एवंविधां स्त्रीमयीं स्त्रियः आगताम् । स्त्रियः प्राप्तामित्यर्थः । मायामयीं स्त्रियमुत्पाद्य तद्वारेति भावः । 'मयट् ' इति तत आगतेऽर्थे मयट । टिस्वात् ङी । निकृति भसनं। अपकारमित्यर्थः 'निकृतिर्भर्त्सने क्षेपे' इति विश्वलोचने । कुर्वन् विदधानः आशु शीघ्र व्यर्थोद्योगः विफलप्रयासः । व्यर्थः विफलः उद्योगः उत्साहः प्रयासो वा यस्य सः । समजनि जातः प्रत्युत पुनः परन्तु वा सः दानवः दुःखं पीडां अगात् अगच्छत् । प्राप्तः इत्यर्थः। कस्य कस्यात्मनः एकान्तं नितान्तमपरिवर्तनीयं वा । एको निश्चितः अन्तः अत्र एकान्तम् । 'तीकान्तनितान्तानि गाढबाढदृढानि च' इत्यमरः । सुखं सौख्यं उपनतं प्राप्तं एकान्ततः एकान्तेन । निश्चयेनापरिवर्तनीयत्वेन वेत्यर्थः । तसेस्सार्वविभक्तिकत्वात्ततीयार्थेऽत्र तसिः। दुःखं वा दुःखमपि । उपनतम् । चक्रनेमिक्रमेण रथाङ्गान्तपरिपाट्या । चक्रं रथाङ्गम् । 'चक्रं सैन्ये रथाङ्गेऽपि आम्रजालेऽम्भसा भ्रमे। कुलालकृत्यनिष्पत्तिभाण्डे राष्ट्रास्त्रभेदयोः।" इति विश्वलोचने । तस्य नेमिः अन्तः चक्रनेमिः । नेमिश्चक्रान्तः। 'चाकाची धाव अथवा पाटा' इति महाराष्ट्रयाम् । 'नेमिः कूपत्रिकायां स्याच्चक्रान्ते तिनिशद्रुमे' इति विश्वलोचने । तस्य क्रमः परिपाटी। तेन । 'क्रमः शक्तिपरीपाटीचलने कम्पनेऽपि च ' इति विश्वलोचने । दशा अवस्था नीचैः अधः उपरि च अर्ध्वं च गच्छति याति । अपकृतिकाले सुखायमानोऽप्यसुरो भगवतो ध्यानकतानतया विकारवैकल्यं दृष्ट्वाऽऽत्मनो विफलप्रयासत्वं ज्ञात्वा दुःखितोऽभवदिति भावः ।
The demon, thus giving maltreatment to the sage through a woman [ or women ], had his efforts turned futile very soon; on the contrary be became sorrowful. To whose lot does invariable (or
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org