SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये I , 6 ८ , ज्योत्स्नेत्यादि । ज्योत्स्ना पातं चन्द्रिका विसरं । ज्योत्स्नायाश्चन्द्रिकायाः पातः विसरः ज्योत्स्नापातः । तम् । ज्योतिः प्रकाशोऽस्त्यस्यां ज्योत्स्ना चन्द्रप्रकाशाख्या । ज्योतिष उङः खं नश्च खुविषये । विषहितुं सोढुं नोतरां शक्नुवन्त्याः अत्यर्थमशक्नुवन्त्याः ' इयेन्मिङ्कझादामद्रव्ये इंति झः पराज्झान्तादाम् । मम मदीये विषये अहः अपि दिवसोऽपि सर्वावस्थासु मदनजनितासु सर्वासु दशासु । विशेषः कालिकोऽवस्था इत्यमरः । मन्दमन्दातपं मन्दप्रकार सूर्यप्रकाशम् । मन्दमन्दः मन्दप्रकारः आतपः सूर्यप्रकाशः यस्मिंस्तत् । मन्दमन्दः मन्दप्रकारः इत्यर्थः । — प्रकारे गुणोत्क्तेर्वा ' इति प्रकारेऽर्थे द्विरुक्तिः । कथं केन प्रकारेण स्यात् भवेत् इति एवं । इतिरत्र प्रकारार्थे । इति हेतौ प्रकारे च इति विश्वलोचने । इदं ' सर्वावस्थास्वहः मन्दमन्दातपं कथं स्यात्' इत्येतत् मदनपरतासर्वचिन्तानिदानं कामवासनाजनितनिखिल चित्तोद्वेग निमित्तकम् । मदनः कामः परः यस्याः सा मदनपरा । मदननिष्ठेत्यर्थः । तस्या भावः मदनपरता । सर्वाश्च ताश्चिन्ताश्च सर्वचिन्ताः । चिन्ताशब्दो गुणमुक्त्वा तदाश्रयभूतां कामुक वक्तीति सः गुणवचनः । ताश्च मदनपरतया कृता इति मदनपरतायाः सर्वचिन्तानां कार्यकारणभावः । अतः सामर्थ्यात् "भा तत्कृतार्थेनोनैः ' इति सः । मदनपरतया सर्वचिन्ताः मदनपरतासर्व चिन्ताः । ताः निदानं कारणं यस्य तत् मदनपरता सर्वचिन्तानिदानम् | आचित्तेशप्रथमपरिरम्भोदयात् प्राणनाथकृतप्रथमालिङ्गनकाल मर्यादीकृत्य तत उत्तरकालम् । प्राणनाथकृतप्रथमाश्लेष कालमारभ्याधुनातनकालं यावदित्यर्थः । चित्तस्य मनस ईष्टे इति चित्तेशः । तस्य यः प्रथमः आद्यः परिरम्भः आलिङ्गनं चित्तेशप्रथमपरिरम्भः । तस्योदय उत्पत्तिः । आङत्र मर्यादायाम् । ' काऽऽङाऽमिविधिमर्यादे ' इति काऽऽङा योगे । 'पपाबहिरञ्चः ' इति सुबन्तेन सहाऽऽङः सः | अभीक्ष्णं सततम् | अविच्छिन्नमित्यर्थः । ध्यायामि चिन्तयामि । भर्तृकृतप्रथमपरिरम्भकालमारभ्याधुनातनकालं यावत् ' अहः अपि सर्वावस्थासु मन्दमन्दातपं कथं स्यात् ? ' इत्यविच्छिन्नकालं चिन्तयामीति कामुक्यभिप्रायः । एषा मायामयी स्त्री अहं वसुन्धराचरी मरुभूतिचरपत्नी ' इति प्रकटीकर्तुकामाऽऽचित्तेशेत्यादि मिथ्यैव ब्रूते, मिथ्योद्यमन्तरेणास्य ध्यानभ्रंशोऽशक्यविधान इत्यभिप्रायेण । , L ३८६ ܕ , How, in all the states of my mind caused by the feelings of love, could the day, even, have moderate heat with reference to me who am not able at all to bear the diffusion of the moon-light? In this way I have been constantly thinking of this, brought into Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy