________________
चतुर्थः सर्गः]
३८७
•effect by all the anxieties caused by the god of love, since the first embrace of my lord.
कामावेशो महति विहितोत्कण्ठमाबाधमाने
त्वय्यासाक्तं गतमनुगतप्राणमेतद्द्वयं च । इत्थं चेतश्चटुलनयने दुलभप्रार्थनं मे
गाढोषणाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥४१॥ अन्वयः- महति कामावेशे विहितोत्कण्ठं आबाधमाने चटुलनयने त्वयि आसक्तिं गतं अनुगतप्राणं च । इत्थं एतद्वयं दुर्लभप्रार्थनं मे चेतः गाढोष्णाभिः त्वद्वियोगव्यथाभिः अशरणं कृतम् ।
__ कामेत्यादि । महति बृहति । विपुले इत्यर्थः। 'विशङ्कटं पृथु बृहद्विशालं पथलं महत् ' इत्यमरः । कामावेशे कामप्राबल्ये । कामस्य मदनस्य आवेशः प्राबल्यं प्रभावो वा कामावेशः। तस्मिन् । विहितोत्कण्ठं उत्कण्ठां जनयित्वा। विहिता जनिता उत्कण्ठा उत्कलिका यस्मिन् कणि यथा स्यात्तथा। 'उत्कण्ठोत्कलिके समे' इत्यमरः। आबाधमाने पीडां जनयति सति। चटुलनयने मनोहरनयने त्वयि भवति आसक्तिं गतं अभिनिविष्टं अनुगतप्राणं च क्षीणशक्तिकं त्वद्ध्यानानुकूलस्वरूप वा। अनुगतः क्षीणः प्राणः मननसामर्थ्य यस्य तत् । यद्वा अनुगतः त्वय्यासक्तः प्राणः मननाख्यं स्वरूपं यस्य तत् । इत्थं त्वदासक्तत्वानुगतप्राणत्वप्रकारेण एतद्वयं एतत् स्वय्यासक्तत्वमनुगतप्राणत्वं चेत्येतद्वयं विद्यते यस्य तत् । दुर्लभप्रार्थनं दुष्प्राप्ययाचनं दुर्लभयाचनं वा । दुःखेन लभ्यते इति दुर्लभम् । “स्वीषद्दुसि कृच्छ्राकृच्छ्रे खः' इति खः । दुर्लभं त्रियामायाः क्षणमिव लघूभवनं, अह्नश्च सर्वास्ववस्थासु मन्दमन्दातपस्वेन भवनं चेत्यादिरूपं प्रार्थयते इति दुर्लभप्रार्थनम् । 'व्यानड्बहुलम्' इति कर्तर्यनट् । यद्वा दुर्लभा कृच्छूलभ्या प्रार्थना यस्य तत् । मे मम चेतः मनः गाढोक्षणाभिः अतिदारुणाभिः । गाढं बाढं भृशं नितान्तं उष्णाभिः दारुणाभिः। 'तीनकान्तनितान्तानि गाढबाढदृढानि च' इत्यमरः। उषति दहतीवोष्णा। तीत्रा दारुणा वेत्यर्थः। त्वद्वियोगव्यथाभिः भवद्वियोगवेदनाभिः। त्वत्तो वियोगस्त्वद्वियोगः । तस्य व्यथाः दुःखानि त्वद्वियोगव्यथाः । ताभिः । 'दुःखं प्रसूतिजे क्लीवे पीडा बाधा च वेदना' इति मालायाम् । 'पीडा बाधा व्यथा दुःखमामनस्यं प्रसूति' इत्यमरः । अशरणं अगतिकं निराश्रयं वा कृतं विहितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org