SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ] ३८५ 6 सङ्क्षिप्येतेत्यादि । विधिविघटिते पापेन दैवेन वियोजिते । विधिना देवेन विघटितः वियोजितः विधिविघटितः । तस्मिन् । ' विधिर्वेधसि काले ना विधाने नियतौ स्त्रियाम्' इति विश्वलोचने । अभीष्टे समभिलषिते । आभिमुख्येनेष्यतेऽ भीष्टम् । 'अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ।' इत्यमरः । प्रिये इत्यर्थः । प्राणाधीशे प्राणनाथे । प्राणानामीष्टे प्राणाधीशः । तस्मिन् । दूरवर्तिनि दूरदेशस्थिते सति । दीर्घयामा । दीर्घा यामाः प्रहराः यस्याः सा दीर्घयामा | प्रहरे संयमे यामः' इति विश्वलोचने । त्रियामा निशा | आद्यन्तयोरर्धयामयोर्दिनव्यवहारात् त्रियामा रात्रिः । ' निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । क्षणं इव क्षणमात्रमिव । ' क्षणः स्यादुत्सवे कालभेदावसरपर्वसु ' इति विश्वलोचने । कथं केन प्रकारेण सङ्क्षिप्येत लघूक्रियेत । इत्थं एतेन प्रकारेण । ' कथमित्थं ' इति प्रकारर्थे थं किमिदमेतद्द्भ्यः । कामाकुलितहृदया मदनजनितभ्रान्त्याकुलचित्ता । कामेन मदनेन कामवासनया वा आकुलितं आकुलं व्यस्तं कृतं हृदयं चित्तं यस्याः सा । प्राणरक्षं प्राणसंरक्षकम् । प्राणानारक्षतीति प्राणरक्षः । तम् । 'नखमुचादयः ' इति कः । भवन्तं त्वां चिन्तयन्ती ध्यायती तता विरहानलदग्धा चक्रवाकी इव चक्रवाकवनितेव बहुशः भूरिशः । भूरीत्यर्थः । 'बह्वरूपार्थाच्छस् कारकाद्वेष्टानिष्टे ' इति शस् । श्वसिमि श्वसनं विदधे । 6 Ban • How could the night, with long watch-periods, be reduced to a moment as it were during the period in which my beloved lord, separated [ from me ] by fate, is far away ? ' - Meditating upon you, thus, the rescuer of my life, I, with my heart distressed by the god of love [ or by the thoughts of love ], am yearning [ for you ] very much like the [ distressed] female Chakravaka. ज्योत्स्नापातं मम विषहितुं नोतरां शक्नुवन्त्याः सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । आचित्तेशप्रथमपरिरम्भोदयादित्यभीक्ष्णं ध्यायामीदं मदनपरता सर्वचिन्तानिदानम् ॥ ४० ॥ अन्वयः -- ज्योत्स्नापातं विषहितुं नोतरां शक्नुवन्त्याः मम अहः अपि सर्वावस्थासु मन्दमन्दातपं कथं स्यात् इति इदं मदनपरतासर्वचिन्तानिदानं आचित्तेशप्रथमपरिरम्भोदयात् अभीक्ष्णं ध्यायामि । पार्श्वाभ्युदये... २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy