SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ३८४ [पार्धाभ्युदये प्राप्त्यर्थं । तव सम्पर्कः संसर्गः त्वत्सम्पर्कः । तस्य स्थिरः स्थास्नुश्चासौ परिचयः संस्तवश्च त्वत्सम्पर्कस्थिरपरिचयः। तस्यावाप्तिः । प्राप्तिः। तस्यै । 'ध्वर्थवाचोऽर्थात्कर्मणि' इति कर्मण्यप् । भाव्यमानां प्रकटीक्रियमाणां तां तां निखिल चेष्टा अङ्गविक्षेपात्मकमभिनयं पश्यन्तीनां साक्षात्कुर्वन्तीणां स्थलीदेवतानां वनदेवतानां । स्थस्यकृत्रिम स्थलम् । वनमित्यर्थः। 'कुण्डगोणस्थलभाजनागकुशकामुककबरकटात् पात्रावपनाकृत्रिमाश्राणास्थूलायसरिरंसुकेशवेशश्रोणौ' इत्यकृत्रिमार्थे स्थलशब्दास्त्रियां की। मुक्तास्थूलाः मौक्तिकमणय इव परिबृंहितकायाः। मुक्तामण्याकारा इत्यर्थः । अश्रुलेशाः नेत्राम्बुबिन्दवः तरूकिसलयेषु पादपपल्लवेषु । 'पल्लवोऽस्त्री किसलयं' इत्यमरः । तरूणां किसलयानि प्रवालाः तरुकिसलयानि । तेषु । अनेन वनदेवतानां कामुकीदुःखावलोकनजनिता मानसी पीडा व्यज्यते । खलु निश्चये । 'खलु स्याद्वाक्यभूषायां खलुवीप्सानिषेधयोः। निश्चिते सान्त्वने मौने जिज्ञासादौ खलु स्मृतम्' इति विश्वलोचने । बहुशः भूरिशः न पतन्ति [इति] न; अपि तु पतन्तीत्यर्थः । द्वौ नौ प्रकृतार्थ गमयत इतिन्यायेन प्रकृतार्थगमनात्पतन्तीत्यर्थः । नद्धयस्य प्रयोगो निश्चये चेत् , तर्हि खलुशब्दप्रयोगो वाक्यालङ्कारे ग्राह्यः । अत्र पादपप्रवालेषु नयन. जलबिन्दुपातेन कामुक्या मरणाभावः सूचितः, अश्रूणां क्षितौ पतनेन मरणादीनामेव संसूचनात् । तदुक्तं-'महात्मगुरुदेवानामश्रुपातः क्षितौ यदि। देशभ्रंशो महद्दःखं मरणं च भवेब्रुवम् ॥' इति । Not indeed do not drops of tears, big like pearls, fall in abundance on the foliage of trees, of the sylvan dieties, seeing various gestures, treasured up in our bodies secretly by the god of love, displayed to have an everlasting acquaintance with your association [i. e. to have an everlasting familiarity with you ]. सक्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा प्राणाधीशे विधिविघटिते दूरवर्तिन्यभीष्टे । इत्थं कामाकुलितहृदया चिन्तयन्ती भवन्तं प्राणारखं श्वसिमि बहुशश्चक्रवाकीव तप्ता ॥३९॥ अन्वयः- 'विधिविघटिते अभीष्टे प्राणाधीशे दूरवर्तिनि दीर्घयामा त्रियामा क्षणं इव कथं सक्षिप्येत ?' इत्थं कामाकुलितहृदथा प्राणारखं भवन्तं चिन्तयन्ती तप्ता चक्रवाकी इव बहुशः श्वसिमि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy