SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ३८२ [ पार्श्वाभ्युदये व्यावहासीं कुर्वाणानां सखीनां कारुण्यं कामुक्यवस्थानिबन्धनं व्यावहास्या मृदुत्वं च कामुक्याः स्वापभङ्गाभावनिमित्तमित्यवसेयम् । My female friends, confounded very much, mutually laughing gently with compassion on seeing me wishing to get up with my arms stretched in the sky for the purpose of embracing you closely [lit. mercilessly ], by reason of knowledge, acquired in a dream of your approch, have recourse to me when my dream [or sleep ] ceases to remind me [ of the activities taking place in my dream ]. निद्रासङ्गादुपहितरतेर्गाढमाश्लेषवृत्ते र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु । विश्लेषस्स्याद्विहितरुदितैराधिजैराशुबोधैः कामोsसह्यं घटयतितरां विप्रलम्भावतारम् ॥ ३७ ॥ अन्वयः निद्रासङ्गात् स्वप्नसन्दर्शनेषु कथं अपि लब्धायाः उपहितरतेः ते गाढं आश्लेषवृत्तेः विश्लेषः स्यात् इति विहितरुदितैः आधिजैः आशुबोधैः कामः विप्रलम्भावतारं असह्यं घटयतितराम् । ८ ८ निद्रेत्यादि । निद्रासङ्गात् स्वापसङ्गमात् । स्वापसम्पर्कात् । निद्रया स्वापेन सङ्गः सम्पर्कः निद्रासङ्गः । तस्मात् । हेतौ का । स्वप्नसन्दर्शनेषु स्वप्नमार्गेषु स्वप्नज्ञानेषु वा | स्वप्न एव सन्दर्शनं मार्गः स्वप्नसन्दर्शनम् । तेषु । ' दर्शनं दृशि दर्पणे । स्वप्ने वर्त्मनि बुद्धौ च शास्त्रधर्मोपलब्धिषु ' इति विश्वलोचने । यद्वा स्वप्नज्ञानेष्वित्यर्थः । स्वप्ने सन्दर्शनानि ज्ञानानि स्वप्नसन्दर्शनानि । तेषु । दर्शनं समये शास्त्रे दृष्टौ • स्वप्नेऽक्षिण संविदि ' इति शब्दार्णवे । यद्वा स्पप्ने स्वप्नदर्शने सन्दर्शनानि संविदः स्वप्नसन्दर्शनानि । तेषु । स्वप्नः स्वप्नवीस्वापदर्शने ' इति विश्वलोचने । कथमपि : महता कष्टेन लब्धायाः प्राप्तायाः । गृहीतायाः इत्यर्थः । उपहितरतेः जनितप्रीतेः । उपहिता जनिता रतिः प्रीतिः यस्मिन् सः । तस्य । ते तव गाढं दृढमविरलं वा । - आश्लेषवृत्तेः आलिङ्गनव्यापारस्य । आश्लेषस्यालिङ्गनस्य वृत्तिः व्यापारः । क्रियेत्यर्थः । तस्याः । विश्लेषः वियोगः । अपगम इत्यर्थः । स्यात् भवेत् । 'सम्भाव्येऽलम्यर्थात् ' -इति सभावनायां लिङ् । विश्लेषः सम्भवेदित्यर्थः । इति अतः । ' इति हेतौ प्रकारे च - प्रकाशाद्यनुकर्षयोः । इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने ' इति विश्वलोचने । विहितरुदितैः कृतरोदनैः । विहितानि कृतानि च तानि रुदितानि रोदनानि च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy