________________
चर्तुः सर्गः]
३८१
cruel Fate does not allow [ lit. tolerate ] our association even then [i. e. in a dream even ].
मामाकाशप्रणिहितभुज निर्दयाश्लेषहेतो
रुत्तिष्ठासुं त्वदुपगमनप्रत्ययात्स्वमजातात् । सख्यो दृष्ट्वा सकरुणमृदुव्यावहासीं दधानाः
कामोन्मुग्धाः स्मरयितुमहो संश्रयन्ते विबुद्धाम् ॥३६।।
अन्वयः-- स्वप्नजातात् त्वदुपगमनप्रत्ययात् निर्दया श्लेषहेतोः आकाशप्रणिहितभुजं उत्तिष्ठासुं मां दृष्ट्वा कामोन्मुग्धाः सकरुणमृदुव्यावहासीं दधानाः सख्या स्मरयितुं अहो मां विबुद्धा संश्रयन्ते ।
मामित्यादि । स्वप्नजातात् स्वापजातात् । स्वप्ने स्वापे जात उत्पन्नः स्वप्नजातः । तस्मात् । त्वदुपगमनप्रत्ययात् भवत्समीपप्रापणज्ञानात् । त्वामुपगमनं समीपप्रापणं त्वदुपगमनम् । तस्य प्रत्ययः ज्ञानम् । तस्मात् । हेतौ का । 'प्रत्ययः शपथे हेतौ ज्ञानविश्वासनिश्चये । सन्नाद्यधीनरन्ध्रेषु ख्यातत्वाचारयोरपि । इति विश्वलोचने । निर्दयालेषहेतोः गाढालिङ्गनार्थम् । निष्क्रान्तो दयायाः निर्दयः । 'प्रात्यवपरिनिःप्रत्यादयो गतकान्तकृष्टग्लानक्रान्तस्थितादिषु वेन्माप्केभिः' इति क्रान्तार्थे षसः । निर्दयश्चासावाश्लेष आलिङ्गनं च निदेयाश्लेषः । तस्य हेतुः । तस्मात्तस्य वा । 'हेतो सर्वाः प्रायः' इति का ता वा । आकाशप्रणिहितभुजं. आकाश निर्विषये व्योम्नि प्रणिहितौ प्रसारितौ भुजौ बाहू यस्मिन्कर्मणि यथा तथा । व्योमप्रदेशे भुजौ प्रसार्येत्यर्थः उत्तिष्ठाखें उत्थातुमिच्छुम् । 'सन्भिक्षाशस्विदिच्छादुः' इति सन्नन्तादुः। मां दृष्ट्वा मां विलोक्य कामोन्मुग्धाः अत्यर्थविमूढाः । काममत्यर्थ उन्मुग्धा विमूढाः कामोन्मुग्धाः । विपुलहसनाद्विगलितात्मवत्ताः इत्यर्थः।। सकरुणमृदुष्यावहाली। परस्परस्य हसनं व्यावहासी । 'कर्मव्यतिहारे ञः' इति कर्तव्यतिहारे स्त्रियां भावे ञः। 'अजिनोऽण्' इति आन्तात्स्वार्थेऽण् स्त्रियां की च । मृद्वी चासौ व्यावहासी च मृदुव्यावहासी । 'पुंवद्यजातीयदेशीये' इति पुंवद्भावः । सकरुणा करुणया अनुकम्पया सहिता सकरुणा । सकरुणा चासौ मृदुव्यावहासी च. सकरुणमृदुव्यावहासी । ताम् । दधानाः कुर्वाणाः । दधतीति दधानाः सख्यः वयस्याः स्मरयितुं स्मृतिविषयतां नाययितुं अहो वाक्यालङ्कारे मां विबुद्धां विद्रुतनिद्रां मां । प्रबुद्धामित्यर्थः । संश्रयन्ते आश्रयन्ते । समीपमागच्छन्तीत्यर्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org