________________
[ पार्धाभ्युदये क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ३५ ॥
अन्वयः- तीवावस्थे मदने मदङ्गं पुष्पबाणैः तपति पुष्पभेदैः च प्रक्लप्ते तस्पे अनस्पं मुहुः दहति [ सति ] तीवापाया [ अहं] स्वप्नमात्रे अपि त्वदुपगमनं न आपं । क्रूरः कृतान्तः नौ सङ्गमं तस्मिन् अपि न सहते ।
तीवेत्यादि । तीत्रावस्थे अरुन्तुदस्थितौ । तीव्रा अरुन्तुदा अवस्था स्थितिः यस्य सः । तस्मिन् । जनितकामायां मनोवस्थायामरुन्तुदतां प्राप्तायां सत्यामित्यर्थः । मदने कामदेवे । 'मदनः स्मरधत्तूरवसन्तद्रुमसिक्थके' इति विश्वलोचने । मदङ्गं मदीयं शरीरं । पुष्पबाणैः पौष्पैः शरैः तपति पीडयति सति । 'उन्मादन शोचनं च तथा सम्मोहनं विदुः । शोषणं मारणं चैव पञ्चबाणा मनोभुवः' इति मदनबाणा अवस्थाविशेषजनकाः । पुष्पमेदैः च पुष्पाणां प्रकारैः। नानाविधैः पुष्पैरित्यर्थः । पुष्पाणां भेदाः विशेषाः पुष्पभेदाः । तैः । 'भेदो द्वैधविशेषयोः । विदारणे चोपजाते' इति विश्वलोचने । प्रक्लप्ते विरचिते तल्पे शयनीये । 'तस्पं कलत्रे शय्यायां तल्पमद्देऽपि न द्वयोः' इति विश्वलोचने। अनल्पं भृशं मुहुः पौनःपुन्येन दहति मदनज्वरमुत्पाद्य देहदाहं जनयति सति तीवापाया दुःखदविप्रलम्भा । तीत्रः मर्मव्यथाजनकः अपायः विप्रलम्भः यस्याः सा । अरुन्तुदविरहेत्यर्थः । अहं स्वप्नमात्रेऽपि स्वप्नावस्थायामपि । किं पुनर्जागर्यावस्थायाम् । त्वदुपगमनं त्वदीयसमीपागमनम् । त्वत्त्वदीयं उपगमनं समीपागमनं त्वदुपगमनम् । न आपं नाप्नवम् ! आप्नोतेलुङि रूपम् । क्रूरः दयापायवान् । विनष्टानुकम्पत्वादिस्त्र इत्यर्थः । कृतान्तः यमो दैवमशुभकर्म वा । 'कृतान्तो यमसिद्धान्तदैवेऽप्यशुभकर्मणि ' इति विश्वलोचने । नौ आवयोः सङ्गम समागम संयोग वा तस्मिन् अपि स्वप्नमात्रेऽपि न सहते न तितिक्षते । न मर्षयतीत्यर्थः। जागर्यायां त्वदुपगमनमसम्भवीति हेतोः स्वप्नावस्थायां त्वदुपगमनजनितसुखमाभिलषमाणाऽयह कामोद्रेकवशादनस्पतूलतल्पगता सत्यपि विद्रावितनिद्रा न स्वप्नमात्रेऽपि तल्लभे इत्यहो मेऽशुभकर्मोदय इति कामुक्यभिप्रायः ।
When the god of love, reduced to a poignant state, pains my body by means of floral arrows and schorches [ torments ] it [i. e.
my body ] constantly "very much in the bed, made of a variety of flowers, I, whom seperation causes sharp pain, could not have your company [ or could not keep company with you] in a dream even;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org