________________
चतुर्थः सर्गः ]
३७९
कामाबाधां घयितुं द्रष्टुकामा विलिख्य यावत् प्रीत्या बहुरसं पश्यामि तावत् मुहुः उपचितैः कोष्णैः अत्रैः मे दृष्टिः किल आलुप्यते ।
त्वत्सादृश्यमित्यादि । अथो प्रतिज्ञायाम् । नाथ स्वामिन् कामुकीनां वृषस्यन्तीनां । कामयते तच्छीलः कामुकः । ' लष्पत्पद्स्थाभूवृञ्शृकमूगम्ध्नः उकञ् ' इति शीले उकञ् । 'कुण्ड गोणस्थलभाजनागकुशकामुककबरकटात् पात्रावपनाकृत्रिमाश्राणास्थूलायसरिरंसुकेशवेशश्रोणी ' इति रिरंस्वर्थे कामुकशब्दात् स्त्रियां ङी । कामुकी रिरंसुरित्यर्थः । अन्यत्रार्थे कामुकेति । ' वृषस्यन्ती तु कामुकी' इत्यमरः । मनोहृत् मनोहारि । मनस आकर्षणं विदधत् । मनास हृदये गुणितं चिन्तितं । मनसा विमृष्टमित्यर्थः । चुरादिगणगतो गुणयतिरामन्त्रणार्थः । आमन्त्रणं च चिन्तनम्। त्वत्सादृश्यं भवदीया प्रतिकृतिः कामाबाधां कामोद्रेकजनितां मदनजनितां वा पीडां लघयितुं लघ्वी कर्तुम् । लघु अल्पं करोति लघयति । तुम् । ' मृदो ध्वर्थे णिज्बहुलम्' इति करोत्यर्थे णिच् । द्रष्टुकामा दिदृक्षुः । द्रष्टुं कामः यस्याः सा द्रष्टुकामा । ' सम्तुमोनामे' इति कामे परस्य तुमः खम् । विलिख्य चित्रयित्वा यावत् यदा । प्रीत्या प्रेम्णा मोदेन ऐकाम्येण वा । ' प्रीतिः स्मरसुतायोगभेदयोः प्रेममोदयोः ' इति विश्वलोचने । बहुरसं महता प्रेम्णा मोदेन वा । बहुः रसः प्रेम मोदो वा यस्मिन्कर्मणि यथा स्यात्तथा । पश्यामि नयनगोचरतां नयामि । तावत् तदा मुहुः अविच्छिन्नं पुनःपुनर्वा उपचितैः प्रवृद्धैः कोणैः कवोष्णैः । ईषदुष्णैरित्यर्थः । " कवं चोष्णे ' इत्युष्णे परतः कोः कादेशः । ' कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति' इत्यमरः । अस्त्रैः अश्रुभिः । अस्रमश्रु च ' इत्यमरः । मे मम वधूसार्थस्य दृष्टिः नयनं किल नियतं आलुप्यते आत्रियते ।
6
To speak out the mind, oh Lord! my eye-sight is obscured by luke-warm tears gathering up incessantly when I, with delight and great attachment, look at your picture designed (sketched) in my mind, attracting minds of lascivious women, on painting it with a desire to look at to mitigate the misery caused by the god of love [ or by the feelings of love ].
तीव्रावस्थे तपति मदने पुष्पबाणैर्मदङ्गं
तल्पेऽनल्पं दहति च मुहुः पुष्पभेदैः प्रक्लप्ते । तीव्रापाया त्वदुपगमनं स्वममात्रेऽपि नाssपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org