________________
चतुर्थः सर्गः]
सादृश्यं नः स्फुटमिति यथा दृश्यते सर्वगामि
ध्येयं साक्षात्सुखफलमिदं योगिनां कामदायि । मिथ्याध्यातेर्मुनिषु विधये हे तपोलक्ष्मि तद्वद् - हन्तकस्थं कचिदपि न ते चण्डि सादृश्यमस्ति ॥३१॥
अन्वयः- हे चण्डि तपोलक्ष्मि । इति ध्येयं, साक्षात्सुखफलं, योगिनां कामदायि इदं नः सादृश्यं यथा स्फुटं सर्वगामि दृश्यते तद्वत् मुनिषु मिथ्याध्यातेः विधये ते सादृश्यं क्वचित् एकस्थं अपि हन्त न आस्ति । ..
सादृश्यमित्यादि । हे अयि चण्डि सन्तापजनिके । हिंस्र निष्ठुरे वेत्यर्थः। 'भवेच्चण्डी तु पार्वत्यां हिंस्रकोपनयोषितोः' इति विश्वलोचने । साक्षात्सुखफलत्वाभावात्पारलौकिकस्य तजनितसुखस्येन्द्रियागोचरत्वाद्बाहिरभ्यन्तरतपस आयासमात्रात्मकत्वात्तपोलक्ष्म्याश्चण्डीति विशेषणं वधूसार्थाभिप्रायापेक्षया यथार्थमवसेयम् । तपोलक्ष्मि तपः पद्मे । तपः एव लक्ष्मीः तपोलक्ष्मीः। किः । इति अनन्तरपूर्वश्लोकोक्तप्रकारेण ध्येयं ध्यातुं योग्यं साक्षात्सुखफलं सुखात्मकप्रत्यक्षफलजनकं । इन्द्रियभोग्यसुखप्रदमित्यर्थः । साक्षात् प्रत्यक्षभिन्द्रियग्राह्यं सुखमेव फलं यस्य तत् । 'प्रत्यक्षवाचकः साक्षात्साक्षात्तुल्यार्थवाचकः' इति विश्वलोचने। 'साक्षात्प्रत्यक्षतुस्ययोः' इत्यमरः। योगिनां ध्यानिनाम् । योगः ध्यानमस्यास्तीति योगी। 'अतोऽनेकाचः' इतीन् । यं कामं हृदि निधाय ध्यायन्ति योगिनस्तत्कामप्रदमित्यर्थः । कामदायि इच्छितप्रदम् । काममिच्छितं ददातीत्येवं शीलमस्य कामदाथि । ' शीलेऽजातौ णिन् । ' इति णिन् । 'कामः स्मरेच्छयोः काम्ये कामं रेतोनिकाययोः । सम्मते स्यादनुमतौ काममित्येतदव्ययम् ' इति विश्वलोचने । इदं पाणिशोभादिकं । सामान्ये नंपुसकम् । नः अस्माकं सादृश्यं सधर्मत्वम् । अस्मत्पाणिशोभादिधर्मसमानो धर्मों गुणविशेषः। यथा येन प्रकारेण स्फुटं स्पष्टत्वेन सर्वगामि सर्वस्मिन्बाह्यार्थे गच्छतीत्येवं शीलमस्येति सर्वगामि। बहुविधवाह्यार्थे विद्यमानमित्यर्थः। 'शीलेऽजातो णिन् ' इति शीले णिन् । दृश्यते दृक्पथमवतरति तद्वत् तथा मुनिषु योगिषु । मननान्मुनिः । तेषु । मुनीनधिकृत्य . मुनिजनविषये वा । मिथ्याध्यातेः विफलध्यानस्य। मिथ्या निष्फला ध्यातिः ध्यानम् । ध्यानस्य मिथ्यात्वं विफलत्वाद्विफलत्वं चेन्द्रियग्राह्यसुखफलाभावात् । ध्यातिः ध्यानम् । ध्यायतेः 'स्त्रियां क्तिः' इति क्तिः । विधये विधानं कर्तुम् | 'तादर्थे ' इत्यप् । प्रचोदयितुमित्यर्थः । ते तव । तपोलक्ष्म्याः इत्यर्थः । सादृश्यं साधर्म्यम् । त्वद्रूषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org