SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये , < " पश्येत्यादि । अस्मदीयां अस्मत्सम्बन्धिनीं । मदीयामित्यर्थः । ' त्यदादिः इत्यस्मदो दुसञ्ज्ञत्वाद् ' दोश्छ: ' इति छः । पाणिशोभां करतलसौन्दर्य अमुष्मिन् एतस्मिन् नवकिसलये प्रत्यग्रपल्लवे । नवं प्रत्यग्रं च तत् किसलयं पल्लवश्व नवकिसलयम् । तस्मिन् । ' प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ' पल्लवोsस्त्री किसलयम्' इत्युभयत्राऽप्यमरः । पश्य । नखानां कररुहाणां छायां कान्ति । छाया स्यादातपाभावे सत्कान्त्युत्कोच कान्तिषु । प्रतिबिम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने ' इति विश्वलोचने । अस्मिन् एतस्मिन् सप्रने सकुसुमे । ' प्रसूनं कुसुमं सुमम् ' इत्यमरः । कुरबकवने । कुरबकः रक्तपुष्पः कुरण्टकजातीयः ओषधिविशेषः । तदुक्तं- ' पीतः कुरण्टको ज्ञेयो रक्तः कुरवकः स्मृतः । ' इति । ' सैरेयाख्या झिण्टी अरुणपुष्पा चेत् कुरबकोऽसौ ' इति क्षीरस्वामी । तस्य वने कानने । कुरबककानने इत्यर्थः । पश्य । स्मितानां मन्दहासानां । स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम् ' इत्यमरः । लीलां चारुतां शोभां वा । उद्यत्कुसुमितलतामञ्जरीषु कुसुमितानां पुष्पितानां लतानां उद्यत्सूद्गच्छत्सु मञ्जरीषु कुसुमस्तबकेषु । पश्य । भ्रूविलासान् भ्रुकुटिविभ्रमान् । प्रतनुषु स्वस्पासु नदीवीचिसु तरङ्गि - णीतरङ्गेषु पश्य विलोकयेत्युत्पश्यामि विलोकयामि । अत्र ' ग्राममट नगरमट गिरिमट इत्येवाहमटामि' इत्यादिवत् पाणिशोभां, नखच्छायां स्मितलालां, विलासांचेति कर्मणां प्रचयस्य दर्शनात् ' पश्य' इति ' भृशाभीक्ष्ण्ये लोट् तस्य हिस्वौ वा तध्वमोस्तथार्थे ' इत्यनुवृत्तौ ' प्रचये वा सामान्यार्थे ' इति कालसामान्ये विकल्पेन लोटः प्रयोगः । पाणिशोभां पश्य, नखच्छायां पश्य, स्मितलालां पश्य, विलासान् पश्य · इत्येवाहमुत्पश्यामि । वावचनात्पक्षान्तरे पाणिशोभां पश्यामि, नखच्छायां पश्यामि, स्मितलीलां पश्यामि, भ्रूविलासान् पश्यामि इत्येवाहमुत्पश्यामीति पश्येत्यस्यार्थः । अहमनेकत्र मत्सादृश्यं पश्यामीति शम्बरासुरमुखेन वदतः चधूसार्थस्याभिप्रायः । अस्मदीयामिति सार्थगतवधूबहुत्वापेक्षयौत्पश्यामीति च वधूसार्थकत्वापेक्षयेत्यभ्यूह्यम् । , ३७४ We see in these young and tender sprouts the loveliness of our palms, in this grove of Kurabaka plants bearing (red) flowers the brightness of our nails, in these clusters of blossoms shooting out of creepers bearing flowers the grace of our smiles [and] in the very slender ripples of rivers the graceful movements of our eyebrows. [ We see our semblance in many objects. ] Jain Education International 3 For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy