________________
३७६
[पार्वाभ्युदये दिसदृशं रूपादिकमित्यर्थः । क्वचित् एकस्थं अपि क्वचिदेकस्मिन्नपि कुरबकादितुल्ये वस्तुनि हन्त न अस्ति नास्तीति निश्चितम् । 'दाने निश्चये च हन्तकारः' इत्यमरटीकायां क्षीरस्वामी ।
Oh cruel Laxmi in the form of penance ! as this our semblance as deseribed [ in the former stanza] above, worthy of being meditated upon, bearing fruit in the form of actual pleasure, fulfilling the desires of mendicants, is seen clearly pervading all [i. e. many external ] objects [ lit. all-pervading ], your semblance, I helping ] to prescribe fruitless meditation with reference to sages, is decidedly not found in a single object even.
हा धिङ् मढि ! यदयमृषिपः त्वामसाध्वीमजानन्
त्वय्यासक्तिं मुहुरुपगतोऽस्मास्वनादर्यभूच । चेतोमय्यां यदनुकमितां ध्यायति प्रेयसीं वा
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् ॥३२॥ अन्वयः- हा ! मूढिं धिक् ! यत् अयं ऋषिपः त्वां असाध्वी अजानन् त्वयि मुहुः आसक्ति उपगतः अस्मासु च अनादरी अभूत् , यत् [च ] अनुकमितां प्रणयकुपितां प्रेयसी वा त्वां धातुरागैः चेतोमय्यां शिलायां आलिख्य ध्यायति ।
हेत्यादि । हा शोके । 'हा विषादेऽपि दुःखेऽपि शोके' इति विश्वलोचने । मूढिं मूर्खतां । 'स्त्रियां क्तिः' इति क्तिः। धिक् धिगस्तु । धिगत्र निन्दायाम्। 'निर्भर्त्सनेऽपि निन्दायां धिक्' इति विश्वलोचने । 'हाऽन्तराऽन्तरेणातिधिनिकषासमयाभिश्चोपाधौ' इति इप् । यत् यस्मात्कारणात् अयं नासाग्राहितलोचनः ध्यानकतानः एष ऋषिपः मुनीश्वरः त्वां भवती तपोलक्ष्मी असाध्वीं। असाधुशीलाम् । हीनाचरणामित्यर्थः । अप्रशस्ता साध्वी असाध्वी । नत्राप्राशस्त्ये, 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नार्थाः षट् प्रकीर्तिताः' इत्युक्तेः। अजानन् अनवगच्छन् त्वयि भवत्यां तपोलक्षम्यां मुहुः शश्वत् । 'मुहुः पुनः पुनः शश्वदीक्ष्णमसकृत् समाः ' इत्यमरः । आसक्तिं अभिनिवेशं । अनुरागमित्यर्थः उपगतः प्राप्तः। अस्मासु च अस्मद्विषये च । वधूसार्थविषये प्राम्भवीयत्वद्वधूविषये मयि वा। अनादरी आदरशून्यः । निर्व्यपेक्षः इत्यर्थः । आदरोस्याऽस्तीत्यादरी। 'अतोऽनेकाचः' इति मत्वर्थीयः इन् । न आदरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org