SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ] ३७१ words in the presence of friends, struck with wonder on account of non-attainment of even a bit of love from you, serves you from a distance. योऽसौ स्त्रीणां प्रणयमधुरो भावगम्योऽधिकारः कामाभिख्यां दधदविरतं लोकरूढा प्रसिद्धिः। सोऽतिक्रान्तःश्रवणविषयं लोचनाभ्यामदृष्ट स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ २८ ॥ अन्वयः- यः असौ कामाभिख्यां दधत् श्रवणविषयं अतिक्रान्तः, लोचनाभ्यां अदृष्टः, प्रणयमधुरः अधिकारः [ यस्य च ] भावगम्यः [इति ] अविरतं लोकरूढा प्रसिद्धिः सः मन्मुखेन उत्कण्ठाविरचितपदं इदं आह ।। योऽसावित्यादि । यः असौ स्त्रीणां कामिनीनां कामाभिख्यां 'कामः' इति सज्ञां दधत् बिभ्राणः श्रवणविषयं श्रोत्रगोचरं । श्रवणयोः कर्णयोः विषयः गोचरः श्रवणविषयः । तम् । अतिक्रान्तः अतीतः । लोचनाभ्यां नयनाभ्यां अदृष्टः दर्शनविषयतामप्रापितः । अनवलोकितः इत्यर्थः । प्रणयमधुरः प्रणयेन प्रेम्णा मधुरः माधुर्ययुक्तः । आनन्दस्यन्दीत्यर्थः । मधु माधुर्यम् । तदस्यास्मिन्वाऽस्तीति मधुरः । "मधुकृष्यादिभ्यो खलौ' इति मत्वर्थीयो । 'मधुरो रसवत्स्वादुप्रियेषु त्रिषु वाच्यवत्' इति विश्वलोचने। 'स्वादुप्रियौ च मधुरौ' इत्यमरः । अधिकारः मानसः परिणामः। यस्य च भावगम्यः भावैः सविलासैरभिनयैर्गम्योऽनुमेयः। शृङ्गाररसस्यान्तहृदयमुत्प्लवमानत्वादिन्द्रियागोचरत्वात्सविलासैः कामुकीनामभिनयैर्गम्यत्वमिति भावः । इति अविरतं अविच्छिन्नकालं लोकरूढा लोके प्रचलिता । सर्वलोकसम्मतेत्यर्थः । प्रसिद्धिः प्रख्यातिः । सः प्रणयमधुरो मानसः परिणामः । परिणामपरिणामिनोः कथञ्चिदभिन्नत्वात्कामवासनाकुलितस्वान्तः कामिनीजनः इत्यर्थः । मन्मुखेन मद्वारेण उत्कण्ठाविरचितपदं उत्कण्ठया उत्कलिकया विरचितानि पदानि सुप्तिङन्तरूपाणि वाक्यानि वा यस्मिस्तत् । 'पदं वाक्ये प्रतिष्ठायां व्यवसायापदेशयोः । पादातचिह्नयोश्शब्दे स्थानत्राणाध्रिवस्तुषु' इति विश्वलोचने। इदं वक्ष्यमाणं ' योगिन् ! योगप्रणिहितमनाः' इत्यादिकं आह ब्रवीति । That transmutation of the minds of women, which is mellifluous owing to love, which assumes the name Kama, which has gone beyond the range of ears, which is not seen by eyes, and which is incessantly Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy