________________
३७०
[पार्धाभ्युदये
with you ] through those fancios [i. e. through the fancies which are worthy of being experienced by oneself in whose mind they rise ).
सोऽयं त्वत्तः प्रणयकणिकामप्यलब्ध्वा विलक्षो
दूरात्सेवां तव वितनुते पश्य सार्थो वधूनाम् । शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्
कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ॥ २७ ॥ अन्वय :- यत् किल सखीनां पुरस्तात् शब्दाख्येयं अपि [ तत् ] आननस्पर्शलोभात् ते कर्णे कथयितुं यः लोलः अभूत् सः अयं वधूनां सार्थः त्वत्तः प्रणयकणिकां अपि अलब्ध्वा विलक्षः दूरात् तव सेवां वितनुते, पश्य ।
सोऽयमित्यादि । यत् प्रतिपादनीयो विषयः किल खलु सखीनां वयस्यानां . पुरस्तात् अग्रतः । 'पूर्वाधरावराणां पुरधवोऽसि' 'अस्तात्' इत्यस्तादस्ताति च परतः पूर्वस्य परादेशः । शब्दाख्येयं अपि शब्दोच्चारणपूर्वकं प्रतिपादयितुं योग्यमपि । शब्दैः स्थानप्रयत्नाभ्यामुच्चैरुच्चारितैश्शब्दैः आख्येयं प्रतिपादनाईम्। 'तृव्याश्चाहे' इत्यार्थे व्यसञस्त्यः । तत् स प्रतिपादनीयो विषयः आननस्पर्शलोभात् त्वन्मुखसम्पर्कगृध्नुतायाः । आननस्पर्श भावत्कमुखसम्पर्के लोभाद्गृध्नुतायाः आननस्पर्शलोभात् । त्वदधररसपानलौड्यादित्यर्थः । ते भवदीये कर्ण श्रोत्रे | श्रवणबिलसन्निधौ स्वमुखं नीत्वेत्यर्थः । कथयितुं प्रतिपादायितुं । यः वधूनां समूहः लोल: सतृष्णः । ' लोलश्चलसतृष्णयोः' इत्यमरः । अभूत् भवति स्म । सः अयं वधूनां योषितां । ' ललना कामिनी योषिद्योषा सीमन्तिनी वधूः' इति धनञ्जयः । सार्थः वृन्दः । ' सार्थः स्याद्वणिजां वृन्दे वृन्दमात्रेऽपि दृश्यते ' इति विश्वलोचने । त्वत्तः भवासकाशात् प्रणयकणिकां अपि प्रेम्णः लेशमपि । ' गोधूमचूर्णे कणिकः स्त्रियां सूक्ष्माग्निमन्थयोः ' इति विश्वलोचने । 'कणिकाऽल्पकणः गोधूमपिष्टं च ' इत्यमरटीकायां क्षीरस्वामी । अलब्ध्वा अनवाप्य विलक्षः विस्मयान्वितः । निष्प्रतिपत्तिरित्यर्थः । प्रतिपत्तेरभावाजातविस्मय इत्यर्थो वा । दूरात् त्वत्समीपे वर्तमानोऽपि त्वत्समीपतरं प्रदेशमप्राप्य । तव भवतः सेवां शुश्रूषां वितनुते करोति । पश्य नयनयोर्गोचरतां नयतात् ।
Look here, this ( very ) concourse of young ) females which was ( just ) eager, owing to an ardent desire for a touch of (your) face, to tel into your ear what could be indeed spoken out in
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org