________________
३७२
[ पार्श्वाभ्युदये
known in the world to be intelligible through amorous gestures, says through me, their mouthpiece, this (i. e. the following), the words [ or sentences ] in which are arranged by longing.
योगिन् ! योगप्रणिहितमनाः किंतरां ध्येयशून्यं
ध्यायस्येवं, स्मर ननु धियाऽध्यक्ष वेद्यं मतं नः । श्यामास्वङ्ग, चकितहरिणीप्रेक्षिते दृष्टिपातं,
वक्त्रच्छायां शशिनि, शिखिनां बर्हभारेषु केशान् ॥ २९ ॥ अन्वयः - • योगिन् ! योगप्रणिहितमनाः एवं किंतरां ध्येयशून्यं व्यायसि ? ननु नः मतं अध्यक्षवेद्यं अङ्गं श्यामासु, दृष्टिपातं चकितहरिणीप्रेक्षिते, वक्त्रच्छायां शशिनि, केशान् शिखिनां बईभारेषु धिया स्मर ।
,
योगिन्नित्यादि । हे योगिन् ध्याननिमग्नचेतस्क । योगो ध्यानमस्याऽस्तीति योगी । तस्य किः । ' योगः सन्नहनोपाय- ध्यान-सङ्गति युक्तिषु ' इत्यमरः । ' अतोऽनेकाचः ' इतीन् । ' तपस्वी संयमी योगी वर्णी साधुश्च पातु वः' इति धनञ्जयः । योगप्रणिहितमनाः ध्येयैकाग्रनिरुद्धचेतस्कः | योगे ध्याने प्रणिहितं स्थापितं मनः येन सः । एवं श्रीमन्मूत्येंत्यादिश्लोकोक्तप्रकारेण किंतरां इन्द्रियप्रत्यक्षावेद्यविषयाणां सम्प्रज्ञातासम्प्रज्ञातमेघनादसमाधिरूपाणां किंविशिष्टं ! किमो झान्तात् 'झ्येन्मिङ्क्षझादामद्रव्ये ' इति आम् । ध्येय शून्यं इन्द्रियाग्राह्यध्यानविषयविकलं ध्यानं । शून्यं रिक्तम् । ' शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः । ध्यायसि चिन्तयसि । ध्यानविषयस्येन्द्रियग्राह्यत्वाभावात्तत्तुच्छाभावात् किंविशिष्टां समाधिमधिरूढोऽसीति भावः । ननु अयि योगिन् नः मतं आवाभ्यां बह्वादृतम् । 'द्वौ चास्मदोऽनुपाधौ " इत्यस्मदो बहुत्वम्। 'जीन्मत्यर्चार्थशील्या दिभ्यः क्तः' इति सति काले क्तः । 'क्तस्याधारसतोः ' इति सति कालेऽत्र क्तस्य प्रत्युक्तत्वात्ता । अध्यक्षवेधं इन्द्रियार्थसन्निकर्षजनितज्ञानविज्ञेयं अङ्गं शरीरं श्यामासु प्रियङ्गुलतासु । प्रीणनक्षम सौकुमार्यादिसाधारण्याच्छ्यामायाः मनोहारिण्याः विशिष्टस्त्रियोऽङ्गं प्रियङ्गुलतायां स्मरेति भावः । प्रियङ्गुः प्रियवल्ली च फलिनी कुञ्जिनी प्रिया । वृक्षा गोवन्दनी श्यामा कारम्भा वर्णभेदिनी इति क्षीरस्वामिटीकायाम् । श्यामाख्यस्त्रीलक्षणं यथा " शीते सुखोष्मसर्वाङ्गी ग्रीष्मे या सुखशीतला । तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कथ्यते ॥ दृष्टिपातं नयनोपान्तविलोकिता दिदृग्व्यापारं चकितहरिणीप्रेक्षिते भयाकुलैणीनयनयोरवलोकनव्यापारे । कामिनीभयाकुलैणीनयनयोश्चाश्वस्यस्य साधर्म्यात्कमनीय
८
-
C
,
Jajn Education International
For Private & Personal Use Only
www.jainelibrary.org