SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ३६६ [ पार्श्वभ्युदये अव्यापन्नः इत्यस्य भवद्विषयकपापाशयविकलः इति वार्थः । वियुक्तस्य द्रोहादिपापाशयसम्भवेऽपि त्वत्तो वियुक्तायास्त्वत्पत्नीचर्यास्त्वद्विषयको न द्रोहादिपापरूपभावनात्मकः आशयः इति भावः। 'व्यापादो द्रोहचिन्तनं ' इत्यमरः। वियुक्तः त्वत्तो वियोगं प्राप्तो दुःखाकुलः सन् लोकः जनः । भवत्पत्नीत्यर्थः । त्वां भवन्तं कुशल भवतः क्षेममारोग्यं च पृच्छति अनुयुङ्क्ते । जिज्ञासते इत्यर्थः । 'दुहि याचि रुधि प्रेच्छि' इत्यादिना पृच्छतेर्द्विकर्मकत्वम् । Inasmuch as the riches resemble a flash of lightning owing to their fickleness [ inconstancy ], the worldly enjoyments, when experienced, perish certainly the very moment they are experienced, a separated person [ i. e. your better half of the former birth separated from you then ] much distressed owing to the absence of stabilty in the mind [ of your beloved or ] in the loving person who is void of [ bodily ] srength, inquires of you after your health [ or welfare ]. तद्भोक्तव्ये स्वयमुपनते शीतकत्वं समुज्झे र्मृत्युव्याघ्रो द्रुतमनुपदी वाममन्विच्छतीतः । आयुष्मत्त्वं कुशलकलितं नन्विहाशाधि नित्यं पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥ २४ ॥ अन्वयः- तत् भोक्तव्ये स्वयं उपनते शीतकत्वं समुज्झेः । द्रुतं अनुपदी मृत्युव्याघ्रः वाम अन्विच्छति । इतः कुशलकलितं आयुष्मत्त्वं इह ननु आशाधि । सुलभविपदां प्राणिनां एतदेव नित्यं पूर्वाशास्यम् । तदित्यादि । तत् यस्मात्कारणात्त्वां त्वदीयं कुशलं पृच्छति तस्मात्कारणात्। भोक्तव्ये भोगा: । प्राक्तनभवे देवरेण भुक्तत्वात्सा वसुन्धराचरी यद्यपि भ्रष्टशीलाऽऽसीत्तथाप्यधुनातनभवेऽक्षतयोनित्वात्तस्याः परदारत्वाभावादस्त्येव भोगाईत्वमति कमठचरशम्बरासुराभिप्रायः । स्वयं उपनते स्वयमेव त्वत्समीपं समागते सति त्वं शीतकत्वं आलस्यं । शीतं मन्दं कारी शीतकः जडः । अलसः इत्यर्थः । शीतकस्यालसस्य भावः शीतकत्वमलत्वन् । 'शीतकोष्णको कारिणि' इति कारिण्यर्थे को निपातितः । समुज्झेः परित्यजतात् । दुतं शीघ्रं अनुपदी अनुपदमन्वेष्टा। पदस्य पश्चादनुपदं । 'झिः सुब्व्वृद्ध्यृद्ध्यर्थाभावातीत्यसम्प्रतिशब्दख्यातिपश्चाद्यथायुगपत्सम्पत्साकल्यान्ते' इति पश्चादर्थे हसः भावप्रधानः । अनुपदमन्वेष्टाऽनुपदी । 'पार्श्वकायःशूलिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy