________________
चतुर्थः सर्गः ]
३६५
अन्वयः-- - [ यस्मात् ] चञ्चलत्वात् सम्पदः विद्युद्वल्लीविलसितनिभाः, लब्धाभोगाः भोगाः तत्क्षणात् एव नियतविपदः, तस्मात् अबले प्रणयिनि जने स्थास्नु - भावव्यपायात् अव्यापन्नः वियुक्तः लोकः त्वां कुशलं पृच्छति ।
6
"
"
>
विद्युदित्यादि । यस्मात् कारणात् चञ्चलत्वात् अस्थिरत्वात् सम्पदःधनानि । धनधान्यकुप्यभाण्डादय इत्यर्थः । विद्युद्वल्लीविलसितनिभाः तडिल्लता-स्फुरितसदृशाः । विद्युद्वस्यास्त डिल्लतायाः विलासितं स्फुरणं विद्युद्वल्लीविलसितं । विलसितं विलासः । स्फुरणमित्यर्थः । 'नब्भावे क्तोऽम्यादिभ्यः' इति क्तः । तन्निभास्तत्तस्याः । अयं निभशब्दस्तुस्थार्थस्स एवोत्तरपदत्वेन रूढस्तेन तेन निभः इत्येवं वाक्ये न प्रयोज्यः । ' वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् । साधारणः - समानश्च स्युरुत्तरपदे त्वमी || निभसंकाशनी काशप्रतीकाशोपमादयः । इत्यमरः । लब्धाभोगाः प्राप्तानुभवाः । लब्धः प्राप्तः आभोगः अनुभवो येषां ते लब्धाभोगाः । भोक्त्रा भुक्ताः इत्यर्थः । भोगाः निर्वेशाः निर्वेशविषयाः वा । ' पुंसि भोगः सुखेऽपि - स्यादश्व फणकाययोः । निर्वेशे गणिकादीनां भोजने पालने धने ॥ इति विश्व-लोचने। भुजेरभ्यवहारार्थात्कौटिस्यार्थाच्च घञ् । तत्क्षणादेव मुक्त्यनन्तरोत्तरसमय एव । नियतविपदः निश्चितविनाशाः । भुक्त्यनन्तरोत्तरकाले विनाशिनः इत्यर्थः । नियता निश्चिता विपद्विनाशः येषां ते नियतविपदः । विपद्यते विनश्यतीति विपद् । सम्पदादिभ्यः क्रिप् क्तिः इति विपद्यतेर्भावे स्त्रियां छिन् । भुक्त्यव्यवहितोत्तरकाले विनशनशीलाः इत्यर्थः । तस्मात् ततः कारणात् अबले शरीरसामर्थ्यविकले । अनशनावमोदर्यादिबाह्यतपआचरणजातशारीरदौर्बस्ये भवति पार्श्वे प्रणयिनि जने पत्नीच वसुधरायां विषये प्रणयितां गच्छति जने भवति । भवद्विषये इत्यर्थः । स्थास्नुभावव्यपायात् स्थिरत्वाभावात् । यथाऽन्ये भोगाः भोगविषयाः वा भोगाव्यवहितोत्तरकाले निश्चितविनाशास्तथा भवतोऽपि तद्भोगविषयत्वात्त्वद्विनाशाशङ्कया. विगलित्चित्तस्थैर्यत्वादिति हेतोश्चेतसः स्थैर्यव्यपगमाद्धेतोर्वा । स्थास्नुः स्थितिशीलः । लाभूस्थिो स्नुः' इति तिष्ठतेश्शीलार्थे ग्स्नुः । स्थास्नुः स्थितिशीलश्चासौ भावश्व स्थास्नुभावः । तस्य व्यपायादपगमात् । विनाशादित्यर्थः । सम्पदां विद्युल्लीविलसितनिभत्वस्य भोगानां च निश्चितविनश्वरत्वस्य दर्शनान्मनः स्थैर्यस्य व्यपगमाद्वेत्यप्यर्थान्तरमत्रोह्यम् । अव्यापन्नः भृशं दुःखितः । व्यापन्नः आकुलीभूतः । दुःखितः इत्यर्थः । अप्रशस्तं कुत्सितं यथा तथा व्यापन्नः अव्यापन्नः । अत्यर्थं दुःखितः इत्यर्थः । यद्वा व्यापन्नं व्यापादः | अन्तर्भावितण्यर्थस्य ग्रहणस्यानुकूलोऽयमर्थः ।
८
C
Jain Education International
,
For Private & Personal Use Only
4
www.jainelibrary.org